प्रधानमन्त्री नरेन्द्र मोदी जी सप्त इति शिखरसम्मेलने भागग्रहणार्थं म्यूनिख नगरे गतवान् । तत्रत्यैः भारतीय समुदाय-जैन: श्रीमत: मोदिन: सोत्साहं स्वागतं कृतम्। तस्मिन् समये तेन बालैः सह चर्चाऽपि कृता। श्रीमोदी जी-सप्त सम्बद्धै: देशैः सह आमन्त्रितैः अन्ताराष्ट्रिय संघठनैश्च सह विचारविमर्श: द्विपक्षीया चर्चा अपि अकरोत् । प्रधानमन्त्री एकेन ट्वीट् सन्देशमाध्यमेन उक्तवान् यत् सः विश्वनेतृभिः साकं सार्थकी चर्चा वाञ्छति। यात्रायाः प्राक् श्रीमता मोदिना एकस्मिन् वक्तव्ये उक्तमासीत् यत् जर्मनीदेशस्य चांसलराख्यस्य ओलाफ शोल्ज इत्यस्य निमन्त्रणे सम्मेलनेऽस्मिन् प्रतिभागितायै जर्मनी गच्छतीति। सः उक्तवान् यत् विगतमासस्य भारतजर्मन्योः अन्त: शासकीय परामर्शानन्तरं श्रीशोल्जेन सह पुनर्मेलनं सुखदं भविष्यतीति मन्ये। जर्मनीदेशेन अर्जेन्टीना- इन्डोनेशिया-सेनेगल-दक्षिण अफ्रीका च अन्येलोक-तान्त्रिकदेशाः सन्ति ये सम्मेलनेऽस्मिन् भागग्रहणाय आहूताः सन्ति । जर्मनीतः प्रत्यावर्तने श्रीमोदी संयुक्त अरब अमीरातस्य आबूधाब्या स्थस्थिति , सः तत्रत्येन राष्ट्रपतिना आबू-धाबी इत्यस्य शासकेन च शेख मोहम्मद-बिन जायद-अल-नहयान-इत्यनेन सह मिलित्वा प्राक्तनस्य राष्ट्रपतेः मृत्युमुपलक्ष्य वैयक्तिकी शोकसंवेदना च दत्तवान् । गत मासस्य सप्त्विन्शति – दिनाङ्के , जी-सप्तसमूहस्य नेतारः दक्षिणजर्मनीदेशस्य बवेरियन आल्प्स् पर्वतस्य श्लोस् एलमाउनगरे स्वस्य त्रिदिवसीयं वार्षिकं शिखरसम्मेलनं आरब्धवन्तः । जर्मनीदेशस्य चान्सलर ओलाफ् स्कोल्ज इत्यनेन श्लोस् एलमौ इत्यत्र जी सप्तशिखरसम्मेलने प्रधानमन्त्री नरेन्द्रमोदीइत्यस्य स्वागतं कृतम् । मोदीमहोदयेन ट्वीट्लेखे उक्तं यत् जीसप्तशिखरसम्मेलने विविधमहत्त्वपूर्णवैश्विकविषयेषु चर्चा अभवत् । प्रधानमन्त्री दक्षिणआफ्रिका इन्डोनेशिया देशयोः राष्ट्रपतिभ्यां जर्मनी कुलपतिना च सह द्विपक्षीयसमागमं अकरोत् । सः शिखरसम्मेलनानन्तरम् कनाडादेशस्य प्रधानमन्त्रिणा यूरोपीयसङ्घस्य आयोगस्य अध्यक्षेन च सह अपि मिलितवान्।











