कामेश्वर सिंह-दरभंगा-संस्कृत विश्वविद्यालयः लोकार्पणम् /पञ्चाम्

कामेश्वर सिंह-दरभंगा-संस्कृत-विश्वविद्यालयों, ०२ जुलाई २०२२ दिङ्नाके विश्वविद्यालयीय-पंचाड्स्य लोकार्पणम् जातम्। पंचागे। देशस्य विदेशस्य च ज्योतिषिभिः तिथिय: विचारिताः। लोकार्पण विश्वविद्यलायस्य कुलपति: प्रो. शशिनाथ झा महोदयः कुलपति कार्यालये अकरोत्। अस्य वैशिष्ट्यम् अस्ति यत् अस ‘साल’इत्यस्य अनुसारेण अस्ति।
कार्यक्रमे प्रतिकुलपतिः, वित्तीय परामर्शी, छात्र-कल्याण-अध्यक्षः, कुलानुशासक:, कुलसचिव:, ज्योतिष-विभागाध्यक्षः, शोध प्रभारी अन्ये च वरिष्ठाधिकारिण: उपस्थिताः आसन्। कामेश्वर सिंह-दरभंगा-संस्कृत विश्वविद्यालयः संस्कृतस्य अध्यापनार्थं प्रचारार्थं च समर्पितः अस्ति । भारते अद्यत्वे कतिचन एव विश्वविद्यालयाः अवशिष्टाः सन्ति ये संस्कृतस्य ज्ञानस्य यथार्थार्थे वितरणं प्रति कार्यं कुर्वन्ति तथा च कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयः तेषु कतिपयेषु संस्थानेषु अन्यतमः अस्ति या न केवलं एतस्य उद्देश्यस्य पूर्तिं कुर्वन् अस्ति। किन्तु अयं विश्वविद्यालयः ऐतिहासिकदृष्ट्या अपि अतीव महत्त्वपूर्णः अस्ति ।