नष्टा मन्दविसर्पिणी (पञ्च्तन्त्र बाल कथा )

कश्चन महाराजः आसीत् । तस्य शय्यायां मन्दविसर्पिणी नाम यूका वसति स्म सा यूका महाराजस्य रक्तम् आस्वादयन्ती सुखेन जीवति स्म । एकदा अग्निमुखः नाम कश्चित् मत्कुणः तां शय्याम् आगतवान् । तं दृष्ट्रा मन्दविसर्पिणी उक्तवती “भोः मत्कुण ! भवान् किमर्थम् अत्र आगतवान् ? भवता अत्र न स्थातव्यम् । शीघ्रमेव इतः गच्छतु” इति ।
तदा अग्निमुखः उक्तवान्- “आर्ये ! अहं बहुजनानां रक्तम् अस्वादितवान् परन्तु कुत्रापि मधुरं रक्तं न लब्धम् । भवती अनुमतिं ददाति चेत् एतस्य महाराजस्य मधुरं रक्तं पीत्वा मम जीवनं सार्थकं करोमि ” इति ।
मन्दविसर्पिणी उक्तवती – “भोः अग्निमुख ! अहम् अनुमतिं ददामि । परन्तु महाराजः यदा निद्रावशः भवति, तदा अहं प्रथमं तस्य रक्तं पिबामि । तदनन्तरम् एव भवता रक्तं पातव्यम् । त्वरा न करणीया” इति ।
“अस्तु, अहं तथैव करोमि” इति अग्निमुखः अङ्गीकृतवान् । किञ्चित्कालानन्तरं महाराजः तत्र आगतवान्, शय्यायां सुप्तवान् च । महाराजस्य इतोऽपि निद्रा न आगता आसीत् । तदानीमेव जिह्वाचापलं निरोद्धम् असमर्थः अग्निमुखः तं दष्टवान् ।
महाराजः झटिति शय्यातः उत्थितवान् । सेवकान् आज्ञापितवान् – “भोः सेवकाः ! शय्यायां किम् अस्ति इति भवन्तः शीघ्रमेव पश्यन्तु ” इति ।
सर्वे अपि सेवकाः सर्वाणि शय्यावस्त्राणि परिशीलितवन्तः ।
अत्रान्तरे मत्कुणः मञ्चस्य रन्ध्रं प्रविष्टवान् सेवकाः वस्त्रमध्ये स्थितां मन्दविसर्पिणीं दृष्टवन्तः, मारितवन्तः च ।
एवं दुष्टाय मत्कुणाय आश्रयस्य दानेन मन्दविसर्पिणी स्वयं नष्टा अतः प्राज्ञैः उच्यते – दुष्टेभ्यः आश्रयः न दातव्यः इति ।