ब्रिटेन प्रधानमन्त्री निर्वाचनम्

अस्य मासस्य २१ दिनाङ्के ऋषि सुनकः ब्रिटेनस्य अग्रिमः पीएम पदं भवितुं एकं पदं समीपे आगत्। ब्रिटेन देशे निवर्तमानप्रधानमन्त्री बोरिस जॉनसन इत्यस्य स्थान ग्रहणाय ऋषिः सुनकः प्रधानममन्त्रीपदस्य संघर्षे अंतिमचक्रं प्राप्तवान् । ऋषिः सुनकः ब्रिनिदेशस्य प्रधानमन्त्रिपदस्य कृते समयोजिते चतुर्थे चरणेऽपि सर्वाधिकमतान् प्राप्तवान्। अधुना ऋषि सुनकः विदेश सचिव लिज-ट्रस इत्यनया सह अंतिम चक्रस्य मतदाने प्रधानमन्त्री पदं कंजरवेटिव दलस्य नेता पद प्रापणाय च प्रतिस्पर्धा करिष्यति। इतः परं कंजर्वेटिव पार्टीति दलस्य कार्यकर्तारः मतदान पुरस्सरं एतयोः कमप्येकं दलनेतृत्वेन चयनं करिष्यन्ति, विजेता च प्रधानमन्त्री भविष्यति। यद्येवं भवति , तर्हि सः ब्रिटेनस्य प्रथमः अशुक्लः हिन्दू ब्रिटिश-भारतीय प्रधानमन्त्री भविष्यति। ज्ञातव्यं यत् सुनकः इन्फोसिसस्य संस्थापकस्य नारायणमूर्तिः जामाता अस्ति तथा च यूके-देशस्य वित्तमन्त्री आसीत्। सः एतावता सर्वेषु मतदानचक्रेषु शीर्षस्थानं प्राप्तवान् चतुर्थपरिक्रमे १३७ मतं प्राप्तवान्।