देवघरस्य बाबा बैद्यनाथ मन्दिरे प्रसिद्ध-श्रावणी मेलकम् अस्य मासस्य त्रयोदश दिनाङ्के प्रारभत् । मासपर्यन्तं जायमानस्य मेलकस्य लोकार्पणं गोड्डा नगरस्य सांसदः निशिकांत दुबे, राज्यस्य कृषिमन्त्री बादलश्च अकुरुताम्। देवघरस्य उपायुक्तः मंजूनाथ-भजन्त्री अवदत् यत् कठोरसुरक्षायां मध्ये मेलकस्य सज्जीकरणम् पूर्णम् अभवत्। कोविड-संक्रमणेन वर्षद्वयानन्तर अस्य मेलकस्य आयोजन क्रियते। कावड-यात्रिणः शिविरेषु स्वास्थ्य-सुविधा: प्रदत्ता । मेलकस्य समापनं अगस्त-मासस्य द्वादश दिनाङ्के भविष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना तत्रावसरे बाबा बैद्यनाथ-मंदिरे भक्तानां कृते देवघर- अन्ताराष्ट्रिय-वायुयानस्थानकस्य उद्घाटनं कृतम्। अवधेयं यत् बाबा बैद्यनाथ- देवालयः भारतस्य द्वादशज्योतिलिङ्गेषु अन्यतमः एकः देवालयः अस्ति।
तस्मिन् एव दिने, गुरुपूर्णिमा पर्व अपि हर्षोल्लासेन सम्पूर्णे देशे आचरितम् आसीत् । अयं दिवस: व्यास-पूर्णिमा पर्व रूपेण अपि मान्यते । इदं पर्वं आध्यात्मिक-शैक्षिक गुरुभ्य: समर्पितम् अस्ति । अस्मिन् अवसरे जनाः गुरुजनान् स्मरन्ति, येषां मार्गदर्शनेन आशीर्वादेन च तेषां जीवनोद्धारं सञ्जातम् प्रधानमन्त्रिणा नरेन्द्र मोदिना गुरु-पूर्णिमाया: अवसरे देशवासिनां कृते शुभकामना: प्रदत्ताः, ट्विटर-संदेश- माध्यमेन श्रीमोदिना उक्तम् यत् अदयस्मिन् दिवसे सर्वान् अनुकरणीय-गुरून् प्रति कृतज्ञता व्यक्तीक्रियते, यै: जना: प्रेरिताः शिक्षिताश्च सन्ति। तेन उक्तम् यत् भारतीयसमाजेन शिक्षायै ज्ञानाय च सर्वाधिक रूपेण महत्वं दीयते। सः आशां प्रकटितवान् यत् गुरुणाम् आशीर्वादेन भारतम् उन्नतशिखरं प्राप्स्यति। प्रधानमन्त्रिणा आषाढ- पूर्णिमायाः अवसरे अपि जनेभ्यः शुभकामना: प्रदत्ताः, भगवतः बुद्धस्य महान्-शिक्षा स्मारिता।












शोभनम्
धन्यवादः