अगस्तमासस्य द्वितीयदिनात् पञ्चदश दिनाङ्कपर्यन्तं स्वस्य प्रोफाइलचित्ररूपेण त्रिरङ्गस्य उपयोगं कुर्वन्तु – प्रधानमन्त्री

मन की बात कार्यक्रमस्य एकनवतितमे संस्करणे स्वतन्त्रतायाः अमृतमहोत्सवस्य जनान्दोलनरूपं अभिलक्ष्य प्रसन्नतां प्रकटयन् प्रधानमन्त्री नरेन्द्रमोदी अस्य मासस्य त्रयोदशतः पञ्चदशदिवसं यावतं हर घर तिरंगा इति प्रतिगृहं राष्ट्रिय त्रिवर्णध्वजं इति अभियाने सहभागार्थं आह्वयत्। श्रीमोदिना उक्तं श्रोतारः भाग्यवादिनः ख्याता: यत् ते स्वतन्त्र भारते स्वातन्त्र्यजीवनम् अलभन् इति। अद्य क्रान्तिवीरस्य उधम सिंहस्य अपि हौताम्य दिवसो वर्तते। प्रधानमन्त्री मोदी एवं स्वातन्त्रवीरं समेत्य तेभ्यः सर्वेभ्यः स्वातन्त्रवीरेभ्यः स्वीयाः श्रद्धाञ्जलयः समार्पयत्, यै: राष्ट्ररक्षायै स्वीयप्राणाः समर्पिताः। श्रीमोदी अगस्त-मासस्य द्वितीयं दिनाङ्कं सविशेषत्वेन प्रत्यपादयत् यत् अयं दिवस: भारतीय-राष्ट्रिय ध्वजस्य रचनाकारस्य पिंगली वेंकैया-वर्यस्य जयन्तीपर्व विद्यते। प्रधानमन्त्री भीकाजीकामावर्यमपि अस्मरत् यो हि त्रिवार्णिकं राष्ट्रिय ध्वजं आकारप्रदानाय महतीं भूमिकां न्यभालयत्। प्रधानमन्त्री उक्तवान् यत् स्वतान्त्र्यमहोत्सवोऽयं अस्मान् पूर्णनिष्ठया कर्तव्यपालनाय बोधयति, अपि च आगामिनः पञ्चविंशति वर्षाणाम् अमृतकालोऽपि कर्तव्यावधिकालो विद्यते। प्रधानमन्त्री कोरोनासंक्रमणं पूर्णतया धूलीसात् कर्तुं पारम्परिक माध्यमानां प्रयोग समुल्लेखयत्। प्रधानमन्त्रिणा मोदिना अस्मिन्नवसरे सर्वाणि राष्ट्रव्यापि मेलकान्यपि समुल्लिखितानि। येषु कानिचन मेलकानि आदिवासी-सम्बद्धानि सन्ति। असौ तेलङ्गानायां मेदारमे चतुर्दिवसीयस्य समक्का-सरलम्मा-जतारा मेलकं उदाहरणत्वेन प्राख्यापयत्। मेलकम् इदं तेलङ्गानायाः महाकुम्भः प्रतिपाद्यते। प्रधानमन्त्री भारतस्य क्रीडनकोत्पादनं अपि सबलं प्रार्थयत्। प्रधानमन्त्री सिंगापुर ओपन बैडमिण्टन इति स्पर्धायां श्रृखलाविजेत्रीं पी. वी. सिन्धुनं, विश्व एथलेटिक्स स्पर्धाश्रृंखलायां रजतपदकविजेतारं नीरज-चोपडां च श्लाघयत्। प्रधानमन्त्री सप्तदशवर्षीयस्य फीफा पादकन्दुक विश्वचषक स्पर्धा श्रृंखलां भारते आयोजयितुम् अपि प्रशंसां प्रकटयत्।