देशे स्टार्ट-अप्स्’ इत्येतेषां संख्या पञ्चसप्तति-सहस्रतः अपि अधिका सञ्जाता

देशे स्टार्ट-अप्स्‘ इत्येतेषां संख्या पञ्चसप्तति-सहस्रतः अपि अधिका सञ्जाता | उद्योगान्तरिक व्यापार-सम्वर्धन-विभागेन स्वतन्त्रतायाः पञ्चसप्ततितमं वर्षम् आलक्ष्य पञ्चसप्तति-सहस्रतः अपि अधिकेभ्यः स्टार्टप्स् इत्येतेभ्यः मान्यता प्रदत्ता । वाणिज्योद्योग मंत्रालयः एकस्मिन् ट्वीट संदेशे प्रोक्तवान् यत् भारतीय-स्टार्टप्स् उत्साहस्य उद्यमशीलतायाः च भावनया प्रेरितानि सन्ति । प्रधानमंत्री नरेंद्र मोदी विंशति-पञ्चदशतमाब्दे स्वतंत्रता-दिवसोपलक्ष्ये प्रदत्ते भाषणे नूतन-भारतस्य परिकल्पना कृतवान् आसीत् सहैव तेन विंशति-षोडशतमाब्दे जनवरीमासस्य षोडशदिनाङ्कः राष्ट्रिय स्टार्टअप्स्-दिवसरूपेण समुद्घोषितः आसीत् । अस्मिन्नेव दिवसे नवाचारं स्टार्टअप्स् इत्येतत् च समुन्नतिं नेतुं सुदृढतन्त्रस्य निर्माणाय कार्ययोजनायै च क्रार्यक्रमः समारब्धः । वाणिज्य मन्त्रालयः प्रोक्तवान् यत् अशीतितोऽधिकेभ्यः स्टार्टप्स् इत्येतेभ्यः प्रतिदिनं मान्यता प्रदीयते ।