बर्मिंघम नगरे समायोजिषु राष्ट्रमंडल खेलासु भारतस्य भव्यं प्रदर्शनं यथावस्थमेव प्रवर्तते

ब्रिटेन-देशे राष्ट्रमण्डल-क्रीडा-2022 द्वाविंशतित्यधिक-विंशति वर्षस्य आयोजनं आरभ्यते। बर्मिंघम- नगरे भारतीयसमयानुसारं एकादश वादने ‘बर्मिंघम’ इत्यत्र अलेक्जेंडर प्राङ्गणे भव्योद्घाटन समारोह पुरस्सरः अभवत्। द्विसप्ततिः देशेभ्य पञ्चशहस्र अधिका: क्रीडका: नवदश प्रतिस्पर्धायां अशीत्यधिक द्विशतम् पदकेभ्यः प्रतिस्पर्धा करिष्यन्ति। भारतीय-दले पञ्चदशधिक द्विशतम् सदस्याः वर्तन्ते ते च षोडश प्रतिस्पर्धायां सम्मिलिताः भविष्यति। भारतीय बैडमिंटन क्रीडिका पी. वी. सिन्धु भारतीयदलस्य नेतृत्वं कृतवती ।
एतस्मिन् शुभारम्भ-कार्यक्रमे प्रायशः द्विसहस्त्रसंख्याकाः कलादक्षाः भव्यप्रस्तुतिं दत्तवन्तः । ‘बर्मिंघम’ इत्येतस्य अलेक्जेंडर प्राङ्गणे पदचालनकार्यक्रमे प्रायशः द्विसप्ततिदल भागः गृहीतः। राष्ट्रमण्डल-क्रीडाणाम् उद्घाटन समारोहस्य पदचालने ‘पी.वी. सिंधुः’, मनप्रीतसिंहश्च भारतस्य ध्वजवाहकत्वेन समुपस्थितौ आस्ताम्। एतद् आयोजनम् अगस्तमासस्य अष्टमदिनाङ्कं यावत् समायोजयिष्यते।
लन्दनस्य बर्मिंघमे नगरे राष्ट्रमण्डल-क्रीडासु जेरेमी-लालरिननुंगा-प्रतिभागिना भारोत्तोलने पुरुषाणां सप्तषष्टिः किलोग्राम भारमिते वर्गे स्वर्णपदकं विजितम्।
शुशीला देवी महिला जुडो-क्रीडायाः अंतिम चक्रे अष्टचत्वारिंशत्-किलोग्राम वर्गे रजत् पदकं विजित्य भारतस्य कृते सप्तमं पदके प्राप्तवती । शुशीला उपान्त्यचक्रे मोरिशस देशस्य प्रिस्सिला मोरेण्ड इत्येनां पराजितवती। अपि च पुरुष-जुडो-क्रीडायाः षष्टि-किलोग्राम-वर्गस्य अन्तिम चक्रे विजय कुमार यादव कान्स्य पदकं विजित्यभारतस्य कृते अष्टम-पदकं प्राप्तवान ।
प्रधानमन्त्री नरेन्द्रमोदी, क्रीडामन्त्री अनुरागसिंहठाकुरः च वर्मिंघम् राष्ट्रमण्डलक्रीडासु कांस्यपदक-अर्जनाय हरजिंदरकौरं वर्धापनानि प्रेषितवन्तौ । तया एकसप्तति किलोग्रामवर्गे भारोत्तलनक्रीडायाम् एषा उपलब्धिः अधिगता । भारतस्य धाविका हिमा-दासः द्विशत मीटरमितायां धावन-स्पर्धायां विजयं प्राप्य उपान्त्यचकाय अर्हतां अधिगतवती । अपरतः पी० वी० सिन्धुः द्वत्रिंशत् चरणे मालदव क्रीडकं विरुध्य स्वीयं अभियानं आरब्धवती मुष्टा मुष्टि क्रीडकः अमितः प्रघाल: न्यूनातिन्यूनं कांस्य पदकं सुनिश्चितवान् । किदाम्बी श्रीकान्तः अणि अग्रिमं क्रमं प्रविशत्। भारतं पञ्च सुवर्णपदकं षट् रजतपदकं सप्तकांस्य पदकं च सन्धन्ते
राष्ट्रमण्डलक्रीडायां पैरा पॉवरलिफ्टर इति सुधीरः द्वादशाधिकैकशतं किलोग्रामपरिमितेन सर्वश्रेष्ठभारेण सह पुरुषाणाम् अत्यधिक भारस्य अन्तिमक्रमे स्वर्णपदकं विजितवान् । सुधीरस्य राष्ट्रमण्डक्रीडासु पैरा पॉवरलिफ्टिंग इति क्रीडायां भारतस्य प्रथमं स्वर्णपदकम् अस्ति मुरली श्रीशङ्करः पुरुषाणां ऊर्ध्वकूदने अष्टदशमलवोत्तर शून्य अष्ट परिमितस्य सर्वश्रेष्ठप्रदर्शनपूर्वकं रजतपदकं विजितवान् साम्प्रतं यावत् भारतं विंशति पदकानि विजितवत् येषु पदकेषु षट् स्वर्णपदकानि सप्त रजतपदकानि सप्त कांस्यपदकानि च सन्ति ।