गृहे गृहे राष्ट्रध्वजस्य उत्थापनं कुर्वन्तु

राष्ट्रिय-ध्वजः सम्पूर्णराष्ट्राय गर्वस्य प्रतीकः अस्ति । राष्ट्रध्वजस्य सम्मानाय सम्पूर्णदेशे हर घर तिरंगा इत्यस्यकार्यक्रमस्य आयोजनं क्रियते । स्वतन्त्रतायाः अमृतमहोत्सवान्तर्गतं संस्कृति मंत्रालयेन एषः निर्णयः स्वीकृतः । अस्य कार्यक्रमस्यान्तर्गतं प्रत्येकं भारतीयजनः स्वगृहे राष्ट्रिय ध्वजमुत्थापनाय प्रेरितः क्रियते । आकाशवाणीतः प्रसारिते ‘मन की बात’ इति कार्यक्रमे प्रधान मंत्री-नरेंद्र-मोदी स्वगृहेषु राष्ट्रियध्वजम् संस्थाप्य हर घर तिरंगा’ अभियानं जनांदोलने परिवर्तितुं जनानां आह्वानं कृतवान् ।
संस्कृतिमन्त्रालयः अद्य नवदिल्ल्यां तिरङ्गा उत्सवः इत्याख्यं सांस्कृतिक सङ्गीतमय कार्यक्रमम् आयोजयति । अयं कार्यक्रमः राष्ट्रिय त्रिवार्णिक-ध्वजस्य निर्मातुः पिङ्गली वैङ्केया इत्यस्य षड्चत्वारिंशदधिकैकशत तमीं जयन्त्यवसरे आयोज्यते । केन्द्रीयगृहमन्त्री अमित शाहः अस्मिन् तिरङ्गा-उत्सवे सहभागी भविष्यति। अस्मिन् अवसरे राष्ट्राय अमूल्य योगदानार्थं श्री वैड्ङ्क्या वर्यस्य सम्माने स्मारकप्रैषचिटिका अपि प्रख्यापयिष्यते। अपि च तदीय कुटुम्बमपि सम्मानेन सभाजयिष्यते। अवधेयास्पदमस्ति यत् तिरङ्गा उत्सवे हर घर तिरङ्गा इति प्रतिगृहं राष्ट्रिय त्रिवार्णिक ध्वजं गीतम् अथ च दृश्यश्रव्यसन्देशस्य भव्य-शुभारम्भः अपि करिष्यते। अस्यां सङ्गीतमयी-सन्ध्यायां सुख्यातः गीतकारः कैलाश खेरः, कैलासा, हर्षदीप कौर, डॉ. रागिनी मक्खरश्च प्रस्तुतिं प्रदास्यन्ति। इयं सङ्गीतमयी-सन्ध्या राष्ट्रस्य स्वतन्त्रतायाः पञ्चसप्ततिवर्ष पूर्त्यवसरे स्वतन्त्रतायाः अमृतमहोत्सवान्तर्गतं समायोज्यते।
प्रधानमन्त्री नरेन्द्रमोदी ‘हरघरतिरंगा’ इति अभिमानमभिलक्ष्य सामाजिकप्रसारण माध्यमानां पाटलिक-मुख्यचित्रं परिवर्त्य त्रिवर्णध्वजम् अकरोत्। अभियानमिदं स्वतन्त्रतायाः अमृत महोत्सवावसरे राष्ट्रस्य स्वतन्त्रतायाः पञ्चसप्तति-वर्ष-पूर्ती उत्सवस्य परिपालनाय समारब्धमस्ति प्रधानमन्त्रिणा ट्वीट् सन्देशे जनेभ्यः मुख्य फलक-चित्रस्य परिवर्तनाय, त्रिवर्णध्वजस्य संश्लेषणाय च अभ्यर्थना कृताऽस्ति । तेनोक्तं यत् अस्मिन् काले यदा देश: स्वतन्त्रतायाः अमृतमहोत्सवं परियालयति, तदा त्रिवर्णध्वजाभियानम् सामूहिक आन्दोलस्य स्वरूपं गृह्णाति
केन्द्रीयः गृहमन्त्री अमितशाहः प्रोक्तवान् यत् ‘हर घर तिरंगा’ इत्येषः कार्यक्रमः समग्रविश्वाय संदेशरुपेण वर्तते यत् प्रत्येकः भारतीयः भारतस्य विकासाय, समृद्धये, सुरक्षायै, संस्कृतिरक्षणाय च सङ्घटितो वर्तते।
त्रिवर्णध्वज-प्रतिमान-निर्मात्ः ‘पिंगली वैंकेया’ इत्येत्स्य षट्चत्वारिंशदाधिक-एकशतमीं जयन्तीमालक्ष्य नवदहेल्याः ‘आईजी’ इति क्रीडांगणे समोयोजित समारोह सम्बोधयन् श्री शाहः प्रोक्तवान् यत् “एतेन अभियानेन भारतीय लोकतान्त्रिक मूल्यानाम्, अथ भारतीय सङ्कल्पस्य च प्रतिदर्शनं भविष्यति” । श्री शाहेन देशस्य जनाः निवेदिताः यत् “सर्वेऽपि जनाः ‘हर घर तिरंगा’ इति कार्यक्रमे अवश्यमेव भागग्रहणं कुर्युः”। एषः कार्यक्रमः मासस्य अस्य त्रयोदश दिनाङ्कात् पञ्चदशदिनाङ्कं यावत् स्वतन्त्रतायाः अमृतमहोत्सवान्तर्गतं समायोज्यते । एतस्मिन् अवसरे श्री शाहेन ‘पिंगली वेंकैया’ इत्येतस्य सम्माने स्मारक प्रैष्य-चीटिकामपि अनावरितवान्, पारिवारिक जनाश्चापि श्रीशाहेन सम्मानिताः।
उपराष्ट्रपतिः वेंकैया नायडू नवदिल्ल्याम् रक्तदुर्गतः समारभ्य संसद्भवनं यावत् सांसदानं ‘हर घर तिरंगा” अभियानान्तर्गतं शोभायात्रां दविचक्रिका मोटर वाहनैः सह समारब्धवान्। इयं शोभायात्रा प्रधानमंत्रिणः नरेन्द्र मोदिनः ‘हर घर तिरंगा’ इत्यभियानावसरम् आधृत्य समारब्धा । केन्द्रिय मंत्री प्रहलादजोशी पीयूष गोयल: चापि अस्यां शोभायात्रायां सम्मिलितौ आस्ताम् ।