उत्तराखण्डे राजभवने अभवत् संस्कृतसप्ताहस्य शुभारम्भ:
संस्कृतभारती, जनपद-हरिद्वार-द्वारा संस्कृत-सप्ताहस्य अवसरे हरिद्वार-नगरे संश्लेषकानां संश्लेषणाभियानस्य आरम्भ: संस्कृत-भारत्या: अखिलभारतीय-संघटनमंत्री श्रीमान् दिनेशकामत-महोदय: कृतवान्। अवसरेस्मिन् प्रान्तसंघटनमन्त्री श्रीमान् गौरवशास्त्री, प्रान्त सहमंत्री डॉ० हरीशगुरुरानी-महोदय:, प्रान्तकार्यकाल-प्रमुख: श्रीभगवतीप्रसाद:, हरिद्वारजनपदमंत्री डॉ० पवन:, नगरविद्यार्थीप्रमुख: श्रीकमल:, विस्तारक: रजत:, श्रीमनीष:, श्रीशुभम: आदय: कार्यकर्तार: उपस्थिता: आसन्।
संस्कृतशिक्षाविभागः, उत्तराखण्ड शासनम्, देहरादूनम् उत्तराखण्ड-संस्कृत-अकादमी, हरिद्वारम् इत्यनयो: तत्त्वावधाने च संस्कृतभारत्या: सहयोगेन राजभवने माननीयराज्यपालमहोदयस्य गरिममय्युपस्थितौ संस्कृत-सप्ताह-महोत्सवस्य शुभारम्भ: अभवत् । द्रोणस्थलीकन्यागुरुकुलीया: छात्रा: वैदिकमंगलाचरणेन कार्यक्रमस्य प्रारम्भं कृतवत्य: । वैक्रमाब्दः २०७९ श्रावणशुक्ल-एकादशीतः भाद्रपदकृष्णतृतीयापर्यन्तम्, संंस्कृतसप्ताह: 08.08.22 त:14.08.22 दिनांकपर्यन्तं सम्पूर्णे उत्तराखण्डे समाचर्यते ।
संस्कृतभारत्या: अखिलभारतीयसंगठनमन्त्री दिनेशकामतवर्य: सर्वान् सम्बोधितवान् यत् जापान रूस फ्रांस आदिदेशानां स्वभाषा अस्ति परन्तु अस्माकं परिचयरूपेण अन्या भाषा भवति यथा माम् पाप् माई नेम इज आदि आदि अर्थात् भारतीयभाषायामपि अस्माकं परिचयशब्दा : न समागच्छन्ति । तै: प्रोक्तं यत् आंलभाषायाम् पंचस्वरा: एव संस्कृते स्वराणां बहुलता विद्यते येषाम् उच्चारणेन मस्तिष्क: च शरीर: विकसित: भवति । अस्माकं संस्कृतवर्णोच्चारणं वैज्ञानिकं विद्यते सम्पूर्णपारिवारिकपरिचय: पवर्गे एव समायाति । वयं संस्कृतसप्ताहावसरे एव संंस्कृतमाचराम: एव न अपि तु सर्वदा आचराम:। सर्वकार: अनिवार्यरूपेण छात्राणां विकासाय संस्कृतं शिक्षणे पाठ्यक्रमे अवश्यं सलग्नं कुर्यादिति ।
अवसरेस्मिन् राजभवनस्य प्रेक्षागृहे ले०ज० (सेवानिवृत्तः) श्रीगुरमीतसिंह: मा.) राज्यपाल:, उत्तराखण्ड: संस्कृतसप्ताहमहोत्सवस्य शुभारंभं दीपप्रज्ज्वालनेन कृतवान् । शुभावसरेस्मिन् राज्यपालवर्येण प्रोक्तं यत् संस्कृतसप्ताहाचरणस्य अयं निर्णय: संस्कृतभाषाया: विकासाय एवं च प्रचार-प्रसाराय महत्वपूर्ण: प्रयास: वर्तते । संस्कृतभाषा भारतस्य सभ्यताया:, संस्कृतेश्च ज्ञानस्य परिचायिका अस्ति। देवभूमे: उत्तराखण्डस्य उत्तरदायित्वं यत् संस्कृतभाषां विश्वस्य एवं च राष्ट्रभाषां कर्तुं स्वस्य पूर्णयोगदानं दद्यात् । संस्कृतेन बिना संस्कृते: च सभ्यताया: अवगमनं कठिनम् अस्ति । संस्कृतं सोशल मीडिया, मॉस मीडिया इत्यनयो: संयोज्य अधिकं सुगमं कर्तुं प्रयासं करणीयं । तै: संस्कृतोच्चारणं वैज्ञानिकरूपेण विज्ञापितम् । मन्त्रोच्चारणेन मस्तिष्के शरीरे च प्रभाव: भवति । अहं प्रतिदिनं 8 मन्त्रोच्चारणं करोमि च तस्य प्रभावं जानामि । मानीयेन प्रोक्तं यत् छात्रेषु कौशलं सम्पादयितुं च दैनन्दिनव्यवहारे संस्कृतस्य प्रयोग: करणीय: ।
माननीयेन राज्यपालवर्येण संस्कृतशपथकर्तार: संस्कृतगौरवसम्मानपत्रेण विधायक: रुद्रप्रयागत: भरतसिंहचौधरी, विधायक: थरालीत: भूपालरामटम्टा एवं विधायक: रानीखेतत: डॉ. प्रमोदनैनवाल: अपि सम्मानिता: कृता: ।
श्रीमती ऋतुभूषण खण्डूरी विधानसभाध्यक्षा कार्यक्रमेत्र उक्तवती यत् मम कृते सौभाग्यावसर: अस्ति , अध्यक्षपदे शपथं संस्कृतभाषायाम् ग्रहीतुं अवसरेस्मिन् माननीयराज्यपालमहोदयस्य करकमलाभ्यां “संस्कृतगौरवसम्मानं” प्राप्य अभिभूता अस्मि । तदर्थं उत्तराखंडसंस्कृत-अकादम्या: आभारं व्यक्तं करोमि ।
संस्कृतिश्च, संस्काराणां मानवमूल्यानां जननी संस्कृतभाषा विद्यते। यत्र संपूर्णविश्वस्य अलौकिकज्ञानसम्पदा समाहिता वर्तते। संस्कृतभाषा अस्माकं देशस्य आत्मा अस्ति । संस्कृतभाषाया: प्रचार-प्रसार: व्यवहारे आनयनम् आवश्यकम् अस्ति। अस्माभि: अन्येपि प्रेरणीया: , येन भारतगौरवस्य प्रतीकभाषा मान-सम्मानं प्राप्नुयात् । डॉ० धनसिंहरावतः माननीय: संस्कृतशिक्षामन्त्री उत्तराखण्डसर्वकारः संस्कृतसप्ताहविषये प्रास्ताविकं प्रस्तुतवान् यत् अस्माकं प्रयास: संस्कृतविषये सततम् अस्ति । वयं संस्कृतविकासाय प्रयत्माना: स्म: । प्रत्येकस्मिन्जनपदे संस्कृतग्रामञ्च कुर्म: । सर्वकारेण प्रतिवर्षम् इव संस्कृतदिवसञ्च संस्कृतसप्ताहं समाचरितुं निर्णयं कृतं तत् निश्चितरूपेण प्रशंसनीयोस्ति ।
कार्यक्रमे वित्तमन्त्री श्रीप्रेमचन्द-अग्रवाल: वित्तमन्त्री उत्तराखण्डसर्वकारः , शिक्षामन्त्री, विधानसभाध्यक्षा चान्येमन्त्रिण: संस्कृतगौरवसम्मानेन राज्यपालवर्येण सम्मानिता: अभवन् । कार्यक्रमस्य संचालनं हरीशगुरुरानी एवं संजू प्रसादध्यानी कृतवन्तौ । सचिवा:, निदेशका:, कुलपतय:, प्राचार्या:, सहाकाचार्या:, आचार्या: , प्रवक्तार: संस्कृताध्यापका: , संस्कृतविद्वांस: च आदय: अस्मिन्नवसरे उपस्थिता: आसन् ।











