केन्द्रीयसंस्कृतविश्वविद्यालये संस्कृतसप्ताहमहोत्सस्य शुभारम्भ:
केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरेण संस्कृतमहोत्सवाङ्गतया अगस्तमासस्य 9 दिनाङ्के अपराह्ने 3:00 वादने “शिवार्चनं” एवं “हर घर तिरङ्गा” इति। कार्यक्रमस्य आरम्भत: कृत:।
सर्वादौ शिवार्चनमिति पूजनकार्यक्रम: प्रवर्तित:। अत्र मुख्यातिथित्वेन उत्तरप्रदेशशासनस्य प्रमुखसचिव: श्रीदुर्गाशङ्करमिश्रमहोदय: समागत:। अयं महोदय: स्वोद्बोधने उक्तवान्, यत् “संस्कृतशास्त्रेषु विविधानि विज्ञानानि, तन्नाम कृषिविज्ञान-वनस्पतिविज्ञान-स्थापत्यविज्ञानप्रभृतीनि वर्तन्ते।
कोविड- काले आयुर्वेदस्य महती प्रसिद्धि: जाता। योगविज्ञानं सम्पूर्णेऽपि विश्वे प्रसारितं जातम्। संस्कृतम् इतोऽपि सरलं स्यात्। सर्वत्र च अस्य प्रचारो भवितव्य:। प्रकृति: स्वयमेव विज्ञानरूपा वर्तते। औषधिविज्ञानम् अस्मात् योजनीयम्।
स्वन्तन्त्रतायै अस्माकं नेतृभि: नैकप्रकारेण बलिदानं प्रदत्तम्, तादृशस्य बलिदानस्य स्मरणम् अस्माभि: करणीयम्। 75तमे स्वतन्त्रतावर्षे “हर घर तिरंगा’ इति कार्यक्रम: करणीय:।” कार्यक्रमे आध्यक्षीयोद्बोधनं परिसर निदेशकेन प्रो.सर्वनारायणझामहाभागेन कृतम्। कार्यक्रमस्य सञ्चालनं मङ्गलाचरणञ्च वेदविभागीयप्राध्यापक: डॉ. डी.दयानाथमहोदय: कृतवान्। परिसरच्छात्रै: सह डॉ. धर्मेन्द्रपाठकमहोदयेन पौरोहित्यम् आचरितम्। कार्यक्रमे विविधा: व्यवस्था परिसरीयछात्राभि: सुश्रीविभामिश्रा-नन्दिनीसैनी-सुश्रीदिया-सुश्रीकात्यायनी इत्यादिभि: कृता। कार्यक्रमे सर्वेऽपि परिसरीय-प्राध्यापका: छात्र-छात्राश्च समुपस्थिता आसन्। उपसप्तति: जनै: अस्मिन् कार्यक्रमे भागो गृहीत:।











