केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरे संस्कृतसप्ताहसमारोहांगतया चतुर्थदिवसे 12 अगस्त, 2022 तमे दिनांके पूर्वाह्णे स्थानीये न्यू बालभारती-विद्यालये संस्कृतभाषासम्बन्धिन्यो नैकाः प्रतियोगिताः प्रो. बच्चाभारती , डा. गणेशशंकरविद्यार्थी महोदयोः निर्देशने छात्राध्यापकाः हेमन्तकिशोरशर्मा, प्रवेशकुमारशुक्ल , विष्णु सम्पन्नाः कारिताः । यासु प्रतियोगितासु प्राथमिकस्तरे 22 छात्राः भागं गृहीतवन्तः। प्रतियोगितायामस्यां प्रथमपुरस्कारः रंजनमोदिना, द्वितीयपुरस्कारः आनन्देन, तृतीयपुरस्कारः जाह्नव्या सान्त्वनापुरस्कारः कुशाग्रपाण्डेयेन च प्राप्तः।
तदुपरान्तं सन्ध्याकाले परिसरे ‘संस्कृतसंगीतसन्ध्या’-कार्यक्रमस्य सफलमायोजनं जातम्। संस्कृतसंगीतसन्ध्या-कार्यक्रमस्य अध्यक्षता परिसरनिदेशकः प्रो. सर्वनारायणझाः अकरोत्। कार्यक्रमास्य सफलं नेतृत्वं संयोजनं च साहित्यविभागाध्यक्षा प्रो. ग़ज़ाला अंसारी अकरोत्।
‘‘संस्कृतसंगीतसन्ध्या’’-कार्यक्रमे संस्कृतप्रचारार्थं छात्र-छात्राः मनमोहकानि कर्णप्रियाणि च गीतानि प्रास्तुवन्। अस्मिन् कार्यक्रमे छात्रैः यथाप्रसंगं मंगलाचरणं, स्वागतगीतम्, एकलगीतानि, सामूहिकगीतानि च प्रस्तुतानि। नूनं छात्र-छात्राणां सुन्दराणां संस्कृतगीतानां प्रस्तुतिभिस्सर्वे श्रोतारो मन्त्रमुग्धाः जाताः। मन्ये एतैर्गीतैस्सर्वेषां रसिकानां हृत्तन्त्राणि झंकृतानि जातानि, परिसरवातावरणं च सुरमयं संजातम्। प्रायेण सार्धघण्टाद्वयं यावद् अयं कार्यक्रमः प्रचलितः। सम्पूर्णमपि कालं यावत् सर्वेऽपि श्रोतारः, संगीतरसिकाः सामाजिकाष्च कार्यक्रमस्य आस्वादमास्वादयन्तोऽऽसन्। कार्यक्रमान्ते, स्वीयाध्यक्षीये उद्बोधने परिसरनिदेशकः प्रो. सर्वनारायणझाः एतादृषानां सांस्कृतिकगतिविधीनामुपादेयताविषये विशदव्याख्यानं प्रादात्। सः स्वोद्बोधने संस्कृतसंगीतयोः पारस्परिकं सम्बन्धमपि उपवर्णितवान्। असौ संगीतं जीवनौषधमिति प्रतिपादयन् तस्य पौराणिकतां पारम्परिकतां च प्राख्यापयत्।
परिसरस्य शास्त्रनिष्णातैर्विद्वद्भिः अस्मिन् कार्यक्रमे स्वीया गरिमामयी उपस्थितिः प्रदत्ता। अनेन तेषां संस्कृतप्रेम संगीतसंशक्तिश्च प्रकटिताऽभवत्। कार्यक्रमेऽस्मिन् प्रो. लोकमान्यमिश्रः, प्रो. शिशिरकुमारपाण्डेयः, प्रो. भारतभूषणत्रिपाठी, , प्रो. धनीन्द्रकुमारझा, डा. गणेषषंकरविद्यार्थी, डा. प्रदीप दीक्षित ,डा. पवनकुमारः, डा. प्रफुल्लगडपालः, डा. कविताबिसारिया, डॉ. एस.पी. सिंहः, डॉ. रेखामिश्रा, डॉ. नीरजतिवारी प्रभृतयोध्यापकाश्च समुपस्थिताः आसन्। कार्यालयीयकर्मचारीगणः छात्रछात्राः सामाजिकाश्च सर्वे कार्यक्रमेSस्मिन् उपस्थिताः अभवन्।











