उज्जयिनीस्थ महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य चतुर्दशः स्थापनादिवससमारोहः अगस्तमासस्य सप्तदशतमे(17-08-2022) दिनाङ्के बुधवासरे विक्रमकीर्तिमन्दिर-देवासमार्गपरिसरस्य सभागारे समायोजितः । स्थापनादिवससमारोहस्य आध्यक्षत्वम् मध्यप्रदेशस्य राज्यपालः विश्वविद्यालयस्य कुलाधिपतयश्च माननीय: श्रीमङ्गुभाई पटेलमहोदय: निर्वहत् । समारोहेऽस्मिन् मुख्यातिथिरूपेण मध्यप्रदेशस् उच्चशिक्षामन्त्रिणः डॉ. मोहन यादवमहोदय:, सारस्वतातिथिरूपेण भारतीयभाषासमितेः अध्यक्ष: पद्मश्री: चमूकृष्णशास्त्रीमहोदय:, विशिष्टातिथिरूपेण उज्जैननगरस्य महापौरः श्री. मुकेश टटवालमहोदय:, विशिष्टातिथिरूपेण भोपालस्थ महर्षिपतञ्जलिसंस्कृतसंस्थानस्य अध्यक्षः श्री भरतबैरागीवर्यः, विश्वविद्यालयस्य कुलपति: आचार्यविजयकुमार: सी. जी महोदय:, कुलसचिवः डॉ. दिलीपसोनीमहोदयाः, विश्वविद्यालयस्य कार्यपरिषद्-विद्यापरिषद् सदस्याः च समुपस्थिताः आसन् । समारोहस्य शुभारम्भः राष्ट्रगानेन, सरस्वतीवन्दनया, विश्वविद्यालयस्य कुलगानेन च जातम् । समारोहेऽस्मिन् पाणिनि प्राध्यापकपीठस्योद्घाटनम्, संस्कृतसान्ध्यकक्ष्यायाः उद्घाटनम्, अष्टादशपुस्तकानां विमोचनं, पाणिनीयशोधपत्रिकायाः लोकार्पणम्, आचार्यमिथिलाप्रसाद त्रिपाठीमहोदयस्य पाणिनिसंस्कृतसेवासम्मान्नम्, विश्वविद्यालयस्य तन्त्रांशस्य (ऐप) लोकार्पणम्, दशदिवसीयदशसंस्कृतसम्भाषणशिविराणां समारोपः इत्यादयः कार्यक्रमाः सुसम्पन्ना: ।
कार्यक्रमस्य प्रास्ताविकम्स्वागतभाषणनञ्च विश्वविद्यालयस्य माननीयकुलपति: आचार्यविजयकुमार:सी.जी मेननमहोदयेन कृतम् । प्रदेशस्यराज्यपालः विश्वविद्यालयस्य कुलाधिपतयश्च माननीय: श्री मङ्गुभाई पटेलमहोदय: स्व उद्बोधने उक्तम् यत् – ‘उज्जैननगरस्य शिक्षाव्यवस्था अतिप्राचीना विश्वप्रसिद्धा च आसीत् । छात्राणां चरित्रनिर्माणमध्यापकः करोति।
बाल्यकालादेव संस्काराणामङ्कुरेण सच्चारित्रस्य निर्माणं भवति’ । आचार्यचमूकृष्णशास्त्रीमहोदयेन उक्तम् यत् – ‘भारतीयज्ञानपरम्पराया: आई. आई. टी., आई. आई. एम. आधुनिकसंस्थाभि: सह समन्वयः संस्कृतेः संरक्षणाय आवश्यकम् अस्ति । संस्कृतछात्राणां कृते उद्योगावकाशः सर्वत्र वर्तते केवलं मार्गदर्शनमपेक्षते’ । विशिष्टातिथि: महर्षिपतञ्जलिसंस्कृतसंस्थानस्य अध्यक्षः श्री भरतबैरागीवर्येण प्रोक्तम् – ‘UKG, LKG कक्षा
आरभ्य संस्कृतशिक्षाया: पाठनस्य प्रयासः क्रियते । तदर्थं पाठ्यक्रमस्य निर्माणं महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य सह्योगेन भविष्यति’ । विशिष्टातिथि: नगरस्य महापौरः श्री. मुकेश टटवालमहोदयेन उक्तम् – ‘महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः उज्जैन्यां वर्तते इत्यस्माकं सौभाग्यम् उज्जैननगरनिगमं विश्वविद्यालस्य सर्वविधं सह्योगं करिष्यतीति’ । मध्यप्रदेशस्य उच्चशिक्षामन्त्रिणः डॉ. मोहन यादवमहोदयेन निगदितं यत् –
“अष्टादशग्रन्थानां विमोचनं भारतीयज्ञानयात्रायाः स्वरुपं वर्तते । विश्वविद्यालयः संस्कृतस्य प्रचारप्रसारे कटिबद्ध: अस्ति” । विश्वविद्यालयस्य माननीय: कुलपति: आचार्यविजयकुमार: सी. जी मेननमहोदयेन उक्तम् यत् – “अस्माकं सौभाग्यं यत् राज्यपालमहोदयस्य हस्तेन अष्टादशपुस्तकानां विमोचनं जातम् । विश्वविद्यालयस्य स्तम्भा: छात्रा: अतः अध्यापकाः निरन्तरं तेषां मार्गदर्शनाय प्रयत्नरताः सन्ति । अग्रे इतोऽपि भारतीसंस्कृतेः मूल्यवृद्धिमधिकृत्य प्रकाशनं भविष्यति” । समारोहेस्मिन् विक्रमविश्वविद्यालयस्य कुलपति: डॉ. अखिलेश कुमारपाण्डेयमहोदय:, अन्ये गणमान्याः च समुपस्थिताः आसन् ।
अनन्तरं सांस्कृतिकार्यक्रमा: जाता: । संस्कृतस्तोत्रदेशभक्तिगीतानां गायनं, योगच्छात्राणां योगनृत्यप्रस्तुतिः, डॉ. खुशबु पञ्चालस्य कथकनृत्यप्रस्तुतिः ।
कार्यक्रमस्य सञ्चालनं विश्वविद्यालयस्य वेद-व्याकरणविभागप्रमुखेन डॉ. अखिलेश द्विवेदीमहोदयेन कृतम् । समारोहे विश्वविद्यालयस्य अध्यापकाः, छात्राः, शोधच्छात्राः, अभिभावकाः, सामाजिका: समुपस्थिताः आसन् । आभारप्रदर्शनं कुलसचिवेन डॉ दिलीपसोनीमहोदयेन कृतम् ।











