अशेषे हि देशे अस्य मासस्य नवदश दिवसे सश्रद्धं सोल्लासं भक्त्या च भगवतः कृष्णस्य जन्मोत्सवपर्व कृष्णजन्माष्टमी आमानितः। राष्ट्रपतिः श्रीमतीद्रौपदीमुर्मूवर्या, उपराष्ट्रपतिः जगदीपधनखडः, प्रधानमन्त्री नरेन्द्रमोदी च देशवासिभ्यः शुभकामनाः प्रायच्छत्। अवसरेऽस्मिन् भक्ता: भगवतः कृष्णस्य पूजार्चनायै मन्दिरेषु गच्छन्ति। उत्तरप्रदेशे , उत्तराखण्डे च अपि भगवतः श्रीकृष्णस्य जन्मोत्सवः आमानयितुं पूर्णतया सज्जम आसीत । मुख्यसमारोह: भगवतः श्रीकृष्णस्य जन्मस्थले मथुरायां आयोज्यते। जन्माष्टमी पर्व आलक्ष्य जनेषु महदुत्साहः आसीत। प्रतिगृहं हाथी घोड़ा पालकी, जय कन्हैया लाल की इति उद्घोष: गुंजायमानः आसीत।
एकतः श्रद्धालवः विभिन्नेषु सार्वजनिक-स्थलेषु भगवतः कृष्णस्य आकर्षकप्रदर्शनं कुर्वन्ति स्म अपरतः विपणिन्वपि विशेषसज्जता एवंच पूजार्चनायाः सामग्रयै विशेषोत्साह: दृश्यमानम् आसीत् इति। राष्ट्रपतिः द्रौपदी मूर्मुवर्या प्रत्यपादयत् यत् भगवान् श्रीकृष्ण अस्मान् निष्काम कर्माणि विधातुं शिक्षयति। अहं कामये अयमुत्सवः समेषां जीवने महदुल्लासकरं सेत्स्यति। उपराष्ट्रपतिना जगदीपधनखड़ वर्येण जन्माष्टमी-पर्वणः अवसरे उक्तं यत् अयं उत्सवः भक्तेभ्यः आध्यात्मिक रूपेण महत्वपूर्ण: अस्ति।











