केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरेण प्रभातसंस्कृतशोभायात्रायाः आयोजनम्

संस्कृतसप्ताहसमारोहस्य तृतीयदिवसे 11.08.2022 तमे दिनांके प्रातः 6:30 वादने लखनऊपरिसरे स्थानीयगोमतीनगरस्य विविधेषु प्रमुखेषु स्थलेषु उपनगरस्थानेषु वा प्रभातकालीना संस्कृतशोभायात्रा आयोजिता।
अस्याः प्रभातसंस्कृतशोभायात्रायाः कार्यजातं परिसरीयस्य वरिष्ठस्य आचार्यस्य लोकमान्यमिश्रमहोदयस्य कुशलनेतृत्वे सफलतापूर्वकं सम्पन्नम्। अस्याः शोभायात्रायाः समुद्घाटनं परिसरनिदेशकः प्रो. सर्वनारायणझाः अकरोत्। अस्यां शोभायात्रायां परिसरस्य समेपि प्राध्यापकाः, कर्मचारिणः, छात्राः छात्र्यष्च समवेताः। सर्वेषामपि हस्तेषु तिरंगाध्वजाः आसन्, यस्मात् कारणात् प्रभातकालीनायाः अस्याः शोभायात्रायाः छविः समधिका आकर्षका मनोरमा च अभवत्।
प्राचीनज्ञानविज्ञानयोः सांकेतिकाधारस्य आलोके संस्कृतस्य स्वरूपं संवीक्ष्य प्रभाविताः नगरवासिनोsपि अस्यां शोभायां सम्मिलिताः अभूवन्। सर्वे सम्पूर्णे मार्गे ‘जयतु संस्कृतं, जयतु भारतम्’ सदृशान् उद्घोषान् गायन्तः प्रसारयन्तश्च गच्छन्तः आसन्, येन पौराः प्रभाविताः आकर्षिताश्च जाताः।
शोभायात्रामस्यां प्रो. देवीप्रसादद्विवेदी, प्रो. बच्चाभारती, प्रो. अवनीशअग्रवाल, प्रो. ग़ज़ालाअंसारी, प्रो. धनीन्द्रझा, प्रो. भारतभूषणत्रिपाठी, डॉ. कविता बिसारिया, डॉ. गुरुचरणसिंहनेगी, डा. प्रफुल्लगडपालः, डा. पवनकुमारः, डा. रामबहादुरदूबे, डा. नीरजतिवारी, डा. दयानाथः इत्यादयः प्राध्यापकाः समुपस्थिताः आसन्।