राष्ट्रपतिः द्रौपदी मुर्मूः अद्य कर्नाटकस्य मैसूरु नगरे दशहरा उत्सवम् उद्घाटितवान् । राष्ट्रपतिवर्या चामुंडी हिल्से देवी चामुंडेश्वरीवर्यायाः पूजाअर्चनां विहितवती अथ देशवासिनां कल्याणाय आशीर्वाद प्राप्तवती। सर्वादौ राष्ट्रपतिवर्या स्वीयसम्भाषणेकन्नड़ भाषायांदेशवासिभ्यः शुभकामनाः प्रदत्तवती। पश्चात् श्रीमती मुर्मूः हिन्दीभाषायां संबोधयन्ती उक्तवती यत् विजयदशमी महिषासुरविरोधंचामुंडेश्वरीदेव्याः विजयपर्वअस्ति। साउक्तवती यत् एतत् पर्वमहिलानांशक्तेः प्रतीकत्वेनापि अस्ति । अत्रान्तरे श्रीमती मुर्मूः औपनिवेशिक शक्तिभिः सह संघर्ष कृतवन्त्यौ रानी अब्बाक्का देवीं, रानी चेन्नमां अथ नैकाः देव्याः अपि सन्ताः स्मृतवती । राष्ट्रपतिवर्या उक्तवती यत् पर्वमाध्यमेनसमाजंएकीकृतवन्तः अथरामायणमहाभारतसन्निभैः धर्मग्रंथैः जनानां मार्गदर्शनं विहितम् अस्ति। एतस्मिन् अवसरे राज्यपालः थावरचंद गहलोतः, मुख्यमंत्री बासवराज बोम्मई, केंद्रीय मंत्री प्रहलाद जोशी शोभा करनदालजे चापिउपस्थिताः आसन् । तत्रैव मुख्यमंत्री बोम्मईस्वीये संबोधने कथितवान् यत् द्विवर्षानन्तरं अस्मिन् वर्षे दशहरा पर्व महता उल्लासेन परिपाल्यते। तेन कथितं यत् दशहरा पर्वणः उद्घाटनाय राष्ट्रपतिवर्या मदीयं आमंत्रणं स्वीकृतवती, तदर्थं अहं भवर्ती प्रति आभार प्रकटयामि । राष्ट्रपतिः द्रौपदी मुर्मूः कर्नाटकस्य मैसूरु नगरे दशहरा उत्सवम् उद्घाटितवती। राष्ट्रपतिवर्या चामुंडी हिल्से देवी चामुंडेश्वरीवर्यायाः पूजाअर्चनां विहितवती अथ देशवासिनां कल्याणाय आशीर्वादं प्राप्तवती।











