कृषक सम्मान-सम्मेलनं

अक्तूबर मासस्य सप्तदश दिनाङ्के प्रधानमन्त्रिणा नरेन्द्रमोदिना नवदिल्ल्यां कृषक सम्मान-सम्मेलनस्य उद्घाटनं कृतम्। श्रीमता मोदिना पी.एम. किसान सम्माननिधि-योजनान्तर्गतं कृषकेभ्यः षोडशसहस्रकोटि-रूप्यकाणि च निस्सारितानि । प्रधानमन्त्रिणा प्रत्यक्षलाभान्तरण-माध्यमेन प्रधानमन्त्री किसान-सम्मान निध्यन्तर्गतं द्वादशतमं राशिपुटकं प्रदत्तम् । सम्मेलनस्यास्य उद्घाटनं कुर्वन् प्रधानमन्त्रिणा उक्तं यत् एषा सम्माननिधियोजना कृषकाणां जीवनोन्नयनस्य उपक्रमः वर्तते । सः उक्तवान् यत् सम्मेलनस्योद्देश्यं कृषिसम्बद्धान् सर्वान् पक्षान् एकमंचीयकरणमस्ति । उक्तवान् द्वाविंशतिकोट्यधिक मृदास्वास्थ्यचिटिका: कृषकेभ्यः प्रदत्ताः सन्ति, येन कृषकाः स्वस्य क्षेत्रस्य स्वास्थ्यं, तस्य उर्वरकतायाश्च विषये विज्ञाः भवेयुः ।
प्रधानमन्त्री सम्मेलनेऽस्मिन् उक्तवान् यत् उर्वरकतायाः क्षेत्रे भारतदेशः आत्मनिर्भर: भवेत् एतदर्थं अस्मिन् दिशि कार्य क्रियते । श्रीमोदी उक्तवान् यत् नैनो यूरिया इत्याख्यं कृषि-उर्वरकं कृषकेभ्यः स्वल्पव्ययात्मकं भविष्यति, अद्यारभ्य च यूरियाख्यम् उर्वरकं भारत इति एकैव नाम्ना विक्रीष्यते । प्रधानमन्त्री उक्तवान् यत् हरबूंद अधिक फसल इति योजनान्तर्गतं प्रशासनं सिंचनाय जलसिंचिकायन्त्रस्य प्रयोगे बलं ददाति । येन जलस्य अपव्ययः वारयिष्यते, मृदाया: उर्वरकताच स्थाष्यति । श्रीमोदी अवोचत् यत् आधुनिक्या: प्रौद्योगिक्याः प्रयोगेण प्रशासनं कृषकविपणयोः मध्ये अन्तरं न्यूनयति। कृषिरेल-कृषि-उड्डयनद्वारा कृषकाः न केवलं महानगरैः सह सम्बद्धाः सन्ति, अपितु अन्ताराष्ट्रिय-विपणी: यावदपि गच्छन्तः सन्ति। सम्मेलनान्तर्गतं प्रधानमन्त्रिणा कृषि नवोद्योगस्य, संगोष्ठयाः, प्रदर्शन्याश्च उद्घाटनम् अपि कृतम्। प्रदर्शन्यां शतत्रयनवोद्योगिनः कृषि – नवाचारान् प्रदर्शयन्तः सन्ति । प्रधानमन्त्रिणा एकस्य इण्डियन एज इत्याख्यस्य अन्तर्जालीय पत्रस्य विमोचनमपि कृतम् । कृषिमन्त्रिणा नरेन्द्रसिंह तोमरेण अवसरेऽस्मिन् उक्तं यत् प्रशासनेन कृषकाणाम् आयाभिवर्धने नैके पदक्षेपाः सन्ति समुत्थापिताः । उर्वरकमन्त्रिणा मनसुखमाण्डविया इत्यनेन उक्तं यत् नरेद्रमोदिन: नेतृत्वे केन्द्रप्रशासनं देशे कृष्यनुसंधानं वरीवर्धयन्नस्ति ।