।।विश्वस्य प्रथमसंस्कृतवैज्ञानिकं चलचित्रं यानस्य प्रदर्शनम्।।

उज्जयिनी (मध्यप्रदेशः) – वार्ता संयोजकः डॉ. दिनेश चौबे, प्रेषिका च डॉ एस्.टी.पी. कनकवल्ली

उज्जयिनीस्थ महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः, उज्जैनस्मार्टसिटीलिमिटेड इत्यनयोः
संयुक्ततत्त्वावधानेन विश्वस्य प्रथमसंस्कृतवैज्ञानिकं चलचित्रं ‘यानम्’ इत्यस्य प्रदर्शनम् अक्टोबर-मासस्य
चतुर्दशतमे दिनाङ्के PVR कॉसमॉस मॉलमध्ये जातम् । चलचित्रमिदम् भारतीयान्तरिक्षाऽनुसन्धानसंस्थायाः
पूर्वनिर्दिशकेन पद्मभूषणेन डॉ. के. राधाकृष्णनवर्येण विरचितं ‘माय ओडिसी’ पुस्तकमाश्रृत्य निर्मितम् ।
कार्यक्रमेऽस्मिन् मुख्यातिथिरूपेण मध्यप्रदेशस्य उच्चशिक्षामन्त्रिः डॉ. मोहनयादवमहोदयः, विशिष्टातिथिरूपेण
च उज्जयिनीनगरनिगमस्य सभापतिः श्रीमति कलावती यादवमहोदया, उपस्थितौ आस्ताम् । अस्य
चलचित्रस्य निदेशकः श्रीविनोदः मङ्करामहोदयः, चलचित्रस्य निर्माता श्री ए. वी. अनूपमहोदयश्च
अवसरेऽस्मिन् समुपस्थितौ आस्ताम् । अस्य कार्यक्रमस्य प्रमुखसूत्रधारः
महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य कुलपति: आचार्यः विजयकुमारः सी. जी मेननवर्य: आसीत् ।
येषां मार्गदर्शने चलचित्रस्य भव्यतया प्रदर्शनं जातम् । चलचित्रमिदं द्रष्टुं नगरस्य गणमान्यनागरिकाः,
अधिकारिणः, नाट्याभिनेतारः, संस्कृतच्छात्राः आहत्य पञ्चशताधिकप्रेक्षकाः संस्कृतरसिकाश्च चलचित्रं
अनुवीक्ष्य महत् आनन्दमनुभूतवन्तः ।
संवादः –
प्रथमसंस्कृतवैज्ञानिकचलचित्राधारितः संवादः सायंकाले पञ्चवादने उज्जैनस्मार्टसिटीलिमिटेड
मेलाकार्यालयस्य सभागारे जातम् । अत्र चलचित्रस्य निर्देशकः, निर्माताश्च चलचित्रसम्बद्धः संवादः
पात्रकारजनैः सह कृतः । अस्मिन् कार्यक्रमे अध्यक्षरूपेण विश्वविद्यालयस्य कुलपतिः विजयकुमार सी. जी
मेननवर्य: आसीत् । कार्यक्रमेऽस्मिन् कुलसचिवः डॉ. दिलीपसोनीमहोदयः, विश्वविद्यालयस्य सर्वे
विभागाध्यक्षाः, प्राध्यापकाः, छात्राश्च उपस्थिताः आसन् । कार्यक्रमस्य सञ्चालनं कार्यक्रमसंयोजकेन
व्याकरणविभागप्रमुखेन डॉ. अखिलेशकुमारद्विवेदीमहोदयेन कृतम् । धन्यवादसमर्पणम्
उज्जैनस्मार्टसिटीलिमिटेड इत्यस्य श्रीमान् गौरवकुमारमहोदयेन कृतम् । कल्याणमन्त्रेण कार्यक्रमस्य समापनं
जातम् ।