लोहतुला- वणिक्पुत्र कथा ( पञ्चतन्त्र कथा )

तुलां लोहस्हस्त्रस्य यत्र खादन्ति मूषिकाः ।
राजंस्तत्र हरेच्छ्येनो बालकं नात्र संशयः ॥

अस्ति कस्मिंश्चिदधिष्ठाने जीर्णघनो नाम वणिक्पुत्रः । स च
विभवक्षयाद्देशान्तरगमनमना व्यचिन्तयत् –
यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः ।
तस्मिन्विभवहीनो यो वसेत्स पुरुषाधमः ॥
तथा च —
येनाहङ्कारयुक्तेन चिरं विलसितं पुरा ।
दीनं वसति तत्रैव यः परेषां स निन्दितः ॥

तस्य च गृहे लोहभारघटिता पूर्वपुरुषोपाजिता तुलाऽऽसीत् ।
तां च कस्यचिच्छ्रेष्टिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः
। ततः सुचिरं कालं देशान्तरं यथेच्चया भ्रान्त्वा पुनः
स्वपुरमागत्य तं श्रेष्ठिनमुवाच — ” भोः श्रेष्ठिन् ! दीयतां मे सा
निक्षेपतुला । ” स आह — ” भो ! नास्ति सा त्वदीया तुला ;
मूषिकेर्भक्षिता ” इति ।
जीर्णधन आह ” भो श्रेष्ठिन् ! नास्ति दोषस्ते , यदि
मूषिकैर्भक्षितेति । ईद्दगेवायं संसारः । न किञ्चिदत्र शाश्वतमस्ति
। परमहं नद्यां स्नानार्थं गमिष्यामि , तत्त्वमात्मीयं शिशुमेनं
धनदेवनामानं मया सब स्नानोपकरणहस्तं प्रेषय ” इति । –
सोऽपि चौर्यभयात्तस्य शङ्कितः स्वपुत्रमुवाच ” वत्स !
पितृव्योऽयं तव स्नानार्थ यास्यति तद् गम्यतामनेन सार्धं
स्नानोपकरणमादाय ” इति ।
अहो , साध्विदमुच्यते –
न भक्त्या कस्यचित्कोऽपि प्रियं प्रकुरुते नरः ।
मत्त्वा भयं प्रलोभम वा कार्यकारणमेव वा ॥

तथा च –
अत्यादरो भवेद्यत्र कार्यकारणवर्जितः ।
तत्राशङ्का प्रकर्तव्या परिणामे सुखावहा ॥

अथासौ वणिशिशुः स्नानोपकरणमादाय प्रहृष्टमनास्तेना
भ्यागतेन सह प्रस्थितः ।
तथानुष्टिते स वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य , तद्
द्वारं बृहच्छिख्याच्छाद्य सत्वरं गृहमागतः । पृष्टश्च तेन वणिजा –
” भो ! अभ्यागत ! कथ्यतां कुत्र मे शिशुर्यस्त्वया सह नदीं
गतः ? ” इति ।
स आह — ” नदीतटात्स शयेनेन हृतः ” इति ।
श्रेष्ठ्याह — ” मिथ्यवादिन् ! किं क्वचिच्छ्येनो बालं हर्तुं शक्नोति ?
तत्समर्पय मे सुतम् । अन्यथा रागकुले निवेदिष्यामि ” इति ।
स आह – ” भोः सत्यवादिन् ! यथा श्येनो बालं न नयति , तथा
मूषिका अपि लोहभारघचितां तुलां न भक्षयन्ति , तदर्पय मे
तुलां , यदि दारकेण प्रयोजनम् । “
एवं तौ विवदमानौ द्वावपि राजकुलं गतौ । तत्र श्रेष्ठी तारस्वरेण
प्रोवाच ” भो ! अब्रह्मण्यम् , अब्रह्मण्यम् ! मम शिशुरनेन
चौरेणापहृतः । “अथ धर्माधिकारिणस्तमूचुः — ” भोः ! समर्प्यतां श्रेष्ठिसुतः ” ।
” किं करोमि , पश्यतो मे नदीतटांच्छ्येनेनापृहतः स आह
शिशुः ” ।
तच्छ्रुत्वा ते प्रोचुः — ” भोः ! न सत्यमभिहितं भवता , किं श्येनः
शिशुं हर्तुं समर्थो भवति ” ?
स आह — ” भो भोः ! श्रूयतां मद्वचः –
तुलां लोहसहस्त्रस्य यत्र खादन्ति मूषिकाः ।
राजंस्तत्र हरेच्छ्येनो बालकं नात्र संशयः ॥

ते प्रोचुः — ” कथमेयतत् ” ?
ततः स श्रेष्ठी सभ्यानामग्रे आदितः सर्व वृत्तान्तं निवेदयामास ।
ततस्तैर्विहस्य द्वावपि तौ परस्परं संबोध्य तुला शिशुप्रदानेन
सन्तोषितौ ।