प्रधानमन्त्री नरेन्द्रमोदी दीपावल्याः पूर्व-संध्यायां अयोध्यायां आयोज्यमाने भव्य-दीपोत्सवे सम्मिलितः भविष्यति । अवधेयं यत् उत्तर-प्रदेशसर्वकारेण आयोजितः अयं षष्ठमः दीपोत्सवकार्यक्रमः अस्ति अपि च प्रधानमन्त्री प्रथमवारं अस्मिन् कार्यक्रमे सम्मिलितो भविष्यति अस्मिन् क्रमे प्रधानमन्त्री अक्तूबरस्य त्रयोविंशतिदिनाङ्के सायं पञ्चवादने अयोध्यां सम्प्राप्स्यति ततः भगवतः श्री रामलला विराजमानस्य दर्शनार्चनंयोः विधाय श्रीराम जन्मभूमि- तीर्थ क्षेत्रस्य यात्रां विधास्यति । श्रीमोदी पादोन-षड्वादने भगवतः श्री-रामस्य प्रतीकात्मकविग्रहस्य राज्याभिषेकं विधास्यति | अस्यानन्तरं सरयू-नद्याः नवनिर्मित-तटे आरार्तिक्ये सम्मिलितः भविष्यति । अनेन सह भव्य-दीपोत्सवस्य शुभारम्भ भविष्यति । अस्मिन् अवसरे पञ्चदशलक्षतः अधिकाः दीपाः प्रज्वालयिष्यन्ते । दीपोत्सवस्य अवधौ विभिन्न राज्याणां नृत्य रूपैः सह पञ्च-दृश्य-प्रदर्शन्यः एकादश रामलीला-प्रदर्शन्यः च प्रदर्शयिष्यन्ते । श्रीमोदी सरयू-नद्याः तटे राम-की- पैड़ी इत्यत्र भव्य-संगीत-लेजर कार्यक्रमेण सह 3-डी होलोग्राफिक-कार्यक्रमम् अपि अवलोकयिष्यति ।











