प्रधानमन्त्री श्री-नरेन्द्र-मोदी अक्तूबर मासस्य नवदश दिनाङ्के नवभारतस्य महिमाप्रदर्शनपरं द्वादशतम रक्षाप्रदर्शिन्याः उद्घाटनं कृतवान् । श्रीमोदी उक्तवान् यत् नवभारतं रक्षाक्षेत्रे अभिप्राय-नवाचार कार्यान्वयनस्य मन्त्रेण सह अग्रेसरम् अस्ति । गुजरातस्य गांधीनगरे रक्षा-प्रदर्शनीम् उद्घाटयन् श्रीमोदी प्रोक्तवान् ,यत् अष्टवर्षपूर्व भारतं सम्पूर्णविश्वे रक्षोपकरणानां बृहतमायातकरूपेण ज्ञायते स्म परमधुना स्वकीयया इच्छाशक्त्या ‘मेक इन इण्डिया’ इत्यभियानेन च रक्षाक्षेत्रे देशः सफलताम् आप्नोति । प्रधानमंत्री प्रोक्तवान् यत् भारतं विश्वस्य पञ्चसप्ततितः अधिकेभ्यः देशेभ्यः रक्षासामग्र्याः उपकरणानां च निर्यातं करोति । पूर्वे, गान्धीनगरे रक्षा मन्त्री श्रीराजनाथसिंहः उक्तवानयत इयं रक्षा प्रदर्शिनी देशीय रक्षा उद्योगे वर्धित-कौशलस्य प्रदर्शनं करिष्यति। प्रवर्तमानस्य संस्करणस्य विषयः अस्ति- ‘पाथ टु प्राइड’ इति । चत्वारिंशत उत्तर- त्रिशत- अधिक-एकसहस्र-रक्षा-उत्पाद संस्थानानां पञ्जीकरणेन सह इयं प्रदर्शिनी बृहत्तमा-भारतीय-रक्षा-प्रदर्शिनी भविष्यति अवधेयास्पदं वर्तते यत इदं भारतीय-रक्षा उत्पाद संस्थानानाम उत्पाद प्रदर्शनस्य प्रथमं संस्करणमपि वर्तते ।
प्रधानमन्त्री भारत-पेवेलियन इत्यत्र हिन्दुस्तान एयरोनॉटिक्स्-लिमिटेड-द्वारा विकसितस्य स्वदेशेनिर्मितस्य एचटीटी-40 (चत्वारिंशत्) इति प्रशिक्षणविमानस्य उद्घाटनं कृतवान् । अस्मिन्नवधौ सः ‘मिशन डेफ स्पेस’ इत्यस्य शुभारम्भेण सह गुजराते दीसा वायुयान-गमन-पट्टिकायाः आधारशिला स्थापितवान् । श्री मोदी प्रोक्तवान् यत् रक्षा-प्रदर्शन्यां नवीनभारतं भारतस्य क्षमता च प्रदर्शिता अस्ति। रक्षाप्रदर्शनस्याः अस्य संस्करणस्य विशेषतां समुल्लिखन् श्रीमोदी प्रोक्तवान् यत् इयं रक्षाप्रदर्शनी अस्ति भारतीय औदयोगिकसंस्थानानि एव भागं भजन्ति अपि च अस्यां मेक इन इण्डिया’ इत्यस्यान्तर्गतं निर्मितानि उपकरणानि एव प्रदर्शितानि सः प्रोक्तवान् यत् लौहपुरूषस्य सरदारपटेलस्य अस्यां भूमौ वयं विश्वस्य सम्मुखे भारतस्य क्षमताः उदाहरणेन प्रस्तुमः । श्रीमोदी प्रोक्तवान् यत् भविष्ये एकस्मै सुदृढ – राष्ट्राय अन्तरिक्ष प्रौद्योगिकी परमावश्यकी । भारतस्य रक्षा क्षेत्रम् आत्मनिर्भरं विधातुं प्रधानमन्त्री सबलं प्रोक्तवान् यत् रक्षा उपकरणानां सूचिद्वयम् अंतिमरूपे स्तः अथ च रक्षोपकरणानां क्रयणं केवलं देशे एव करिष्यते ।












अत्युत्तमः
धन्यवादः