रक्षामन्त्रालयः द्वितीय-चरणस्य विशिष्ट-स्वच्छताभियानं प्रचालयति । अस्य प्रमुखोद्देश्यं कार्यालये कार्यालयेतर क्षेत्रेषु च कार्यं कुर्वतां जनानां व्यवहारे परिवर्तनं विधातुमस्ति । अस्याभियानावधौ जनानां सहभागित्वं दायित्वं च प्राथमिकतां प्राप्नोति विशिष्टाभियानं समारभ्य रक्षाविभागेन सम्पूर्ण-देशे एकोनसप्तत्यधिक-पञ्चशताधिक-चतुः सहस्र स्थानेषु स्वच्छताभियानं प्रचाल्यते अवधेयं यत् चतुर्दशोत्तर- द्विसहस्रतमाब्दे राष्ट्रपितुः महात्म-गांधिने श्रद्धांजलिं प्रदातुं सर्वकारेण स्वच्छभारताभियानेति कार्यक्रमः समारब्धः ।











