श्रीमोदी उत्तराखण्डस्य विकासाय चतुस्त्रिंशदर्बुदतः अधिकरूप्यकाणां सम्पर्क-परियोजनानाम् आधारशिलां संस्थापितवान् ।

प्रधानमन्त्री नरेन्द्रमोदी अक्तूबर मासस्य 21 दिनाङ्के प्रातः ८.३० वादने केदारनाथमन्दिरं प्राप्स्यति। दर्शनं पूजा च भविष्यति, तदनन्तरं सः रज्जुमार्गप्रकल्पस्य शिलान्यासं करिष्यति।
प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् सः केदारनाथ-ब्रदीनाथ धाम्नोः आगत्य आशीर्वादं च सम्प्राप्य धन्योऽअभवत्। चमोली-जनपदस्य माणा-ग्रामे जनसभां संबोधयन् श्रीमोदी प्रोक्तवान् यत् रोप-वे इति नूतन-रज्जुमार्गस्य निर्माणेन गौरीकुण्डतः समारभ्य केदारनाथं यावत् यात्रासमये न्यूनता आगमिष्यति अपि च तीर्थयात्रिभ्यः सौविध्यं भविष्यति। अवधेयं यत् प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः उत्तराखण्डे केदारनाथ-बद्रीनाथ-धाम्नोः पूजार्चनं कृतवान्। श्रीमोदी उत्तराखण्डस्य विकासाय चतुस्त्रिंशदर्बुदतः अधिकरूप्यकाणां सम्पर्क-परियोजनानाम् आधारशिलां संस्थापितवान् । एतासु योजनासु गौरीकुंडतः केदारनाथं, गोविंद-घाटतः हेमकुंडं योजयितुं द्वे नूतन-रोपवे-परियोजने सम्मिलिते स्तः । श्रीमोदी एक सहस्र-कोटि-रुप्यकाणां मार्गविस्तार-परियोजनानां शिलान्यासम् अपि विधास्यति एताभिः परियोजनाभिः गढ़वाल-क्षेत्रे धार्मिक-पर्यटनं संपर्क-साधनानि च वर्धिष्यन्ति ।
श्री मोदी मंदाकिनी-आस्थापथ सरस्वती-आस्थापथ इत्यनयोः विकास-कार्याणाम् प्रगतिविषये समीक्षां विधास्यति । रोपवे इत्यादीनां महत्त्वपूर्णस्य आधारभूतसंरचनायाः विकासेन धार्मिकपर्यटनस्य अपि प्रोत्साहनं भविष्यति, येन क्षेत्रे आर्थिकवृद्धिः प्रेरयिष्यति तथा च अनेके रोजगारस्य अवसराः सृज्यन्ते | पीएम मोदी स्वभ्रमणकाले प्रायः १००० कोटिरूप्यकाणां मार्गविस्तारपरियोजनानां शिलान्यासमपि करिष्यति।