संयुक्तराष्ट्र-सुरक्षा परिषदः आतङ्कवाद्रोधि-समित्याः विशिष्टोपवेशन्

विदेशमन्त्री डॉ० एस जयशंकरः नव-दिल्ल्याम् आयोजिते संयुक्त राष्ट्र सुरक्षा परिषदः आतङ्कवाद्रोधि-समित्याः विशिष्टोपवेशने पूर्णसत्रं सम्बोधितवान् । डॉ० एस जयशंकरः प्रोक्तवान् यत् एशिया-अफ्रीकयोः आतङ्कवादस्य भयं निरन्तरं वर्धते अपि च नूतन-प्रौद्योगिक्या सुरक्षा-व्यवस्था गम्भीरसङ्कटं सम्मुखीकरोति । सः प्रोक्तवान् यत् आतङ्कवादः मानवतायै महत्तम सङ्कटम् अस्ति वर्चुअल-प्राइवेट-नेटवर्क, एन्क्रिप्टिड-मैसेजिंग, वर्चुअल करेंसी प्रभृतीनां नवीन प्रौद्योगिकीनां आगमनेन सर्वकाराः नियामकसंगठनानि च नूतन सङ्कटं सम्मुखीकुर्वन्ति यतोहि आतंकवादाय एतेषाम् अनैतिकप्रयोगः क्रियते । डॉ० एस जयशंकरः प्रोक्तवान् यत् आतंकवादि-सगठनैः संगठितापराधिक-तन्त्रैः च मानव-रहित ड्रोनप्रणालीनां प्रयोगः अपि विशालसङ्कटं जनयति । विदेशमन्त्री प्रोक्तवान् यत् आतङ्कवादि-संगठनानि अफ्रीकायां सुरक्षाबलानां संयुक्त राष्ट्र-शांति सैनिकानां च गतिविधीन् अवलोकयितुं ड्रोनयानस्य प्रयोगं कुर्वन्ति , संयुक्त राष्ट्र सुरक्षा परिषदः अध्यक्षरूपेण भारतस्य कार्यकालावधौ आतङ्कवाद्रोधि अभियानानि सर्वोच्च प्राथमिकतां भजन्ति । तदनन्तरम् , संयुक्त राष्ट्र सुरक्षा-परिषदः आतंकवादरोधि समितेः प्रतिनिधिमंडलानां प्रमुखाः , नवदिल्ल्याम् राष्ट्रपति भवने राष्ट्रपतिना द्रौपदी मुर्मू वर्यया सह मेलनं कृतवन्तः । उपवेशने संयुक्त राष्ट्रे भारतस्य स्थायी प्रतिनिधिः राजदूतः रुचिरा कम्बोजः सीटीसी इत्यस्य अध्यक्षरूपेण राष्ट्रपतये प्राथमिकतायाः सूचनां अयच्छत्।