इण्डोनेशियायाः बालीमध्ये स्वयात्रायाः समापनानन्तरं प्रधानमन्त्री नरेन्द्रमोदी नवदेहलीं प्राप्नोत् प्रधानमन्त्री सबलं प्रतिपादितवान् यत् भारतीय: जीविंशति-अध्यक्षताकार्यक्रमः समावेशि-निर्णायकपरश्च सिद्धो भविष्यति।

इण्डोनेशियायाः बालीमध्ये स्वयात्रायाः समापनानन्तरं प्रधानमन्त्री नरेन्द्रमोदी नवदेहली प्राप्नोत् । प्रधानमन्त्री सप्तदशस्य जीविंशतिशिखरसम्मेलनस्य त्रिदिवसीययात्रायाम् बालीमध्ये आसीत्। श्रीमोदिना इण्डोनेशियायाः जनानां सर्वकारस्य राष्ट्रपतिद्वारा च कृतसत्कारार्थम् आतिथ्याय धन्यवादः ज्ञापितः। प्रधानमन्त्रिणा यात्राकाले नैकैः वैश्विकनेतृभिः सह द्विपक्षीयवार्तालापः कृतः । ह्य एव भारताय जीविंशतिशिखरसम्मेलनस्य अध्यक्षता अपि समर्पिता। भारतदेशः आधिकारिकरूपेण अग्रिममासस्य प्रथमदिनाङ्कतः जीविंशति इत्यस्य अध्यक्षतां करिष्यति। समापनसत्रे बालीमध्ये इण्डोनेशियायाः राष्ट्रपतिः सांकेतिकरूपेण प्रधानमन्त्रिणे मोदिने जीविंशति इत्यस्य अध्यक्षतां समर्पितवान्। सत्रसम्बोधनकाले श्रीमोदिना प्रोक्तं यत् भारतीयानां जनानां कृते अयं गर्वस्य विषयः अस्ति। तेनोक्तं यत् भारतम् एतादृशे काले जीविंशति इत्यस्य अध्यक्षतां करोति यदा विश्वसमुदायः भू-राजनैतिक-अवसाद-आर्थिक-मन्दता-खाद्योर्जा-सदृशैः संकटैः सह संघर्षरतो वर्तते। द्विदिनात्मकस्य शिखरसम्मेलनस्य द्वितीयदिने रूस-युक्रेन-युद्धस्य वर्धनस्य चिन्ता आसीत्, यतः पोलैण्ड्-देशे क्षेपणास्त्र-विस्फोटेन द्वौ जनाः मृतौ यदा पोलिश-विदेशमन्त्रालयेन उक्तं यत् एषा क्षेपणास्त्रं रूसदेशस्य अस्ति, तदा अमेरिकी-अधिकारिणः अवदन् यत् प्रारम्भिकमूल्यांकनेन ज्ञायते यत् एतत् युक्रेन-सैनिकैः आगच्छन्तं रूसी-क्षेपणास्त्रं प्रति प्रक्षिप्तम् इति। युक्रेनदेशस्य वोलोडिमिर् जेलेन्स्की इत्यनेन क्षेपणास्त्रघटना शत्रुतायाः “महत्त्वपूर्णं वर्धनं” इति उक्तम् आसीत् ।
बालीमध्ये प्रधानमन्त्रिणा नरेन्द्रमोदिना कथितं यत् भारतस्य अध्यक्षता समावेशिनी महत्त्वकांक्षिणी निर्णायिकी कार्योन्मुखा च भविष्यति।