संस्कारस्य अनुशीलनम्

मार्कण्डेय शारदेयः (पटना, बिहारस्थः)

भारतीयायां जीवन-पद्धत्यां संस्कारः अतीव प्रचलितः शब्दः । अस्य मुख्याशयः शास्त्ररीत्या शरीरस्य शोधनम्। जीवनस्य मार्गे मन्त्रैः कर्मकाण्डीय – विधिभिश्च योग्यता – सेचनम् । यथा खनिज पदार्थाः नाना मलैः युक्ताः भवन्ति, ते संशोध्य उपयोगे गृह्यन्ते, तथैव गर्भतः मरणं यावत् अस्मभ्यं शोधनस्य आवश्यकता स्वीकृता अस्माकं तत्त्वविद्भिः आचार्यैः । एतस्य न केवलं जीवने, अपितु सर्वत्र एव स्थानम् । विधिः भिन्ना भवेत्, परन्तु शुद्धीकरणं मुख्यम्। अग्निस्थापने पञ्चभूसंस्कारः क्रियते, प्रतिमा स्थापने जीर्ण – मन्दिरस्य, नवगृहस्य च अनेके संस्काराः क्रियन्ते । अतः संस्कारः न पाषण्डः, अपितु जीवस्य जीवनस्य च कृते आवश्यक उपचार एव मान्यः ।

अयं संस्कार इत्याख्यः शब्दः नाना भावबोधकः दर्शनस्य विविधेषु विषयेषु च प्रयुक्तः । किन्त्वत्र भारतीयायां संस्कृत्यां गृहीतानां जीवनस्य निर्धारितेषु समयेषु यथानाम संस्कार – विशेषा एव द्रष्टव्याः ।

अस्माकं जीवनम् एव यज्ञमयम् । परब्रह्मणः पुरुषात् यज्ञः यज्ञात् च समस्तः संसारः अभवत् । अस्माकम् इयं मान्यता पुरुषसूक्ते गीतायां पुराणेषु अपि दृश्यते। यज्ञस्य आशयः कर्म। अर्थात् कर्ममयं जगत्। एतत् कर्म यदि विधिसम्मतं भवेत्, तु उत्तमम्, विधिहीनं भवेत् तु अनुत्तमम् इति । विधिसम्मतं कार्येषु संस्कारोऽपि। अतः यज्ञरूपो संस्कारः।

अस्माकं संस्कृतौ गर्भाधान-कालतः एव यज्ञीया प्रक्रिया प्रारभ्यते । यावज्जीवनं निर्धारित समयानुरूपम् अस्य नामानुरूपं मलशोधनं चलत्येव । कारणं यत् अस्माकं मान्यता इयं यत् इदं जन्म पूर्वकृतानां कर्मणाम् उपलब्धिः। पूर्वकृतस्य शोधनेन इह जन्मनि सुखम् अधिगन्तुम् अर्हामः। पुनः मृत्योः अनन्तरम् अपि मल-शोधनम्, अर्थात् संस्कारः । अनेन कारणेन आवश्यकः यत् आगामिनि जन्मनि अपि दुष्परिणामो न भवेत् ।

अस्माकं मान्यतायाम् अकृताभिगमः कृतप्रणाशश्च – एतौ शब्दो विशिष्टौ ध्येयौ । सुख-दुःखमयो भोगः कर्मफलम् एव । पूर्वजन्मनि अपि कृतस्य कर्मणः फलं न नश्यति। इह जन्मनि कृतस्य फलं यदि केनचित् कारणेन न अधिगतं तु आगामिषु जन्मसु अपि- अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् इति सनातनी धारणा। कृतस्य नाशः न भवतीति निश्चितम् ।

अस्तुः संस्काराणां परिचय ध्यातव्यः इदानीम् । सामान्यतः षोडश संस्काराः कथिताः- गर्भाद्या मृत्यु पर्यन्ताः संस्काराः षोडश । परन्तुः एषु मतभिन्नता अपि दृश्यते। क्रमनिर्धारणेऽपि नैकता। एषु षोडशसु के संस्काराः ? तु, अस्मिन् शार्दूलविक्रीडित छन्दसि द्रष्टव्याः-

गर्भाधनमतश्च पुंसवनकं सीमन्त – जाताभिषे नामाख्यं सह निष्क्रमेण च तथान्नप्राशनं कर्म चा चूडारूपो व्रतबन्धकोऽप्यथ चतुर्वेदव्रतानां पुनः केशान्तः सविसर्गकः परिणयः स्यात् षोडशी कर्मणाम्।। अत्र अन्त्येष्टिः न गणिता। केषाञ्चित् मतेनेयम् । स्वामिदयानन्द-मतेन चैते-

१. गर्भाधानम्, २. पुंसवनम् ३. सीमन्तोन्नयनम् ४. जातकर्म, ५. नामकरणम्, ६. निष्क्रमणम्, ७. चूडाकर्म, ८. अन्नप्राशनम्, ९. कर्णवेधः, १०. उपनयनम्, ११. वेदारम्भः, १२. समावर्तनम् १३. विवाहः, १४. वानप्रस्थाश्रमः, १५. संन्यासाश्रमः, १६. अन्त्येष्टिकर्म चेति ।

किन्तुः आश्वलायन-मतेन एकादशविधाः संस्कारा एव। ते च- विवाहः, गर्भाधानम्, पुंसवनम्, सीमन्तोन्नयनम्, जातकर्म, नामकरणम्, अन्नप्राशनम्, चूडाकरणम्, उपनयनम्, समावर्तनम् अन्त्येष्टिश्चेति ।

पारस्करमते निष्क्रमणं केशान्तं च संयोज्य त्रयोदश। बौधायन-मते निष्क्रमणस्य स्थाने उपनिष्क्रमणम्, अन्त्येष्टे: स्थाने पितृमेथः। एतदतिरिक्तः कर्णवेधः तथा केशान्ताभावे सति त्रयोदशैव।

इदानीं प्रायेण बहवः संस्काराः लुप्ताः। विवाह एव मुख्यतमः। किं कारणम् इति प्रश्ने मदीयो विचारो यत् बहुकालं यावत् परतन्त्रता, विदेशि – लुण्टाकैः लुण्टिताः वयम्। येन केन प्रकारेण प्राणस्य परिवारस्य रक्षणे प्रयतमानाः आस्म। आपद्गते यत् कृत्यम् अत्यावश्यकम्, तदेव पालने तत्पराः जाताः वयमिति। देशस्य स्वातन्त्र्ये ऽपि सदवसराभावः। धर्माध्यक्षः अपि केवलं भजनं कीर्तनं कथाश्रवणं यज्ञादौ दानम् एव मुख्यं कार्यं निर्दिष्टम्। वैदिकाचाराः ब्राह्मणेभ्योऽपि दूरं गताः। पुरोहिताः अपि वेदविमुखाः। यजमानाः अपि कृपणाः अथवा तैः करिष्यमाणे धार्मिकायोजने प्रदर्शनम् एव मुख्यम्।

अस्तुः समासतः सर्वे प्रकाश्याः। कैश्चित् आचार्यैः गर्भाधानतः, तु कैश्चित् विवाहतः संस्काराणां गणना कृता । अत्र गर्भाधानतः एव क्रियते । तद्यथा-

१. गर्भाधानम्- विवाहस्य चतुर्थीकर्मणः च पश्चात् सन्तानार्थम् अयं संस्कारः । अथवा; मासिक-धर्मस्य चतुर्थीतः षोडशीं रात्रिं यावत् गर्भशोधनाय क्रियतेऽयं पत्न्याः संस्कारः । शास्त्रानुसारेण पतिः आत्मनः कृते आगतस्य भोजनस्य किञ्चित् पक्वम् अन्नं कस्मिंश्चित् पात्रे निःसार्य अग्नये, वायवे, सूर्याय, अर्यमणे, वरुणाय, पुष्णे च समन्त्रकम् आहुतिं ददाति। तदनन्तरं भुङ्क्ते । सः सम्भोगे इमं मन्त्रं पठति- आ ते योनिं गर्म एतु पुमान् बाण इवेषुषिम्। आ वीरोऽञ जायतां पुत्रस्ते दशमास्यः ।।

पुंसवनम् – पुमांसम् इव सूते बलप्रदानेन पुरुषवत् जनयति अनेन, पुमान् प्रसूयते तद्वा इत्यर्थस्य द्योतकोऽयं संस्कारः । अस्य मुख्यो भावः पुत्रोत्पत्तिः । अस्मिन् संस्कारे मतानाम् अतीव भिन्नता दृश्यते। तस्मात् सारकथनम् अशक्यम्। बृहस्पत्युः मतेन प्रथमगर्भिण्याः स्थिते गर्भे तृतीये मासे अयं संस्कारः कर्तव्यः। वैकल्पिके चतुर्थे षष्ठे अष्टमे वा। निर्णयसिन्धौ विहित-नक्षत्रादि-निर्धारितम्।

सीमन्तोन्नयनम्- सीमन्तः उन्नीयते यस्मिन् कर्मणि तत् सीमन्तोन्नयनम् । सीमन्तस्य; अर्थात् केशानाम् उन्नयनं विभाजनमिति । वसिष्ठमतेन अयं संस्कारः चतुर्थे, षष्ठे, सप्तमे अष्टमे वा मासे कर्तव्यः । आश्वलायनस्य मतेन अस्य उद्देश्यः-

पत्न्याः प्रथमजं गर्भम् अत्तुकामाः सुदुर्भगाः ।

आयान्ति काश्चिद् राक्षस्यः रुधिराशन- तत्पराः।।

तासां निरसनार्थाय श्रियम् आवाहयेत् पतिः।

सीमन्त – करणी लक्ष्मीः तामावाहयति मन्त्रतः।।

एते जन्मनः पूर्ववर्तिनः । अतः परं बाल्यावस्थायाः संस्काराः टव्याः।

जातकर्म- जातस्य शिशोः जाते शिशौ वा यत्कर्म, तत् जातकर्मेति । वसिष्ठमतेन- श्रुत्वा जातं पिता पुत्रं सचौल-स्नानम् आचरेत्। ततः परं नाभिच्छेदनात् पूर्वम् एव वृद्धिश्राद्धं कृत्वा सुवर्ण-शलाकया शिशोः जिह्वायां दधि-मधु-घृतानि अवलेहनादि – विधिः। ततः नालच्छेदनम्।

नामकरणम्- शिशोः नाम-निर्धारणम् अपि एकः यज्ञात्मकः संस्कारः एव। शिशोः जन्मात् एकादशतः मासं यावत् शुभदिने शुभनक्षत्रादिषु क्रियमाणोऽयं विधिः। शास्त्रानुसारेण देवता-नाम, मासनाम, नाक्षत्र-नाम व्यावहारिकं नाम च चतुर्थानि नामानि एकस्य क्रियन्ते। विधिवत् देवपूजनात् अनन्तरं जातस्य कर्णे निर्धारितानि नामानि दीयन्ते। अस्मिन् समये गुग्गल -माध्यमेन नामान्वेषणं कृत्वा बालानां यत् नाम क्रियते तत् व्याकरण- दृष्ट्या प्रायेण न साधु।

निष्क्रमणम्- शिशोः गृहाद् बहिः दर्शनार्थोऽयं विधिः । कालविषये मतभिन्नता दृश्यते अन्यदपि। तथापि; एकेन मतेन तृतीयस्य शुक्लपक्षस्य तृतीयायां तिथौ तं (शिशुं) स्नापयित्वा सायं सन्ध्यायां चन्द्राभिमुखः कृताञ्जलिः पिता तिष्ठति। माता च शिशुं नववस्त्रै आच्छाद्य पत्युः वामे स्थित्वा जातकस्यः शिरः पित्रा स्पर्शयति। स समन्त्रकं शिशुं स्पृष्ट्वा चन्द्रं दर्शयति। पश्चात् चन्द्रार्घ्यं ददाति। क्वचित् सूर्य-पूजनान्तरं प्रातः सूर्यदर्शनम्।

७. अन्नप्राशनम् – सविधि शिशोः प्रथमतः अन्नात्मकं भोजनं खादनम् एव अस्मिन् संस्कारे मुख्यं कृत्यम् । बालस्य षष्ठे अष्टमे वा मासि, बालायाः पञ्चमे अथवा सप्तमे मासे विहितेषु दिन- नक्षत्रादिषु अयं यज्ञात्मकः संस्कारः क्रियते। महर्षेः मार्कण्डेयस्य मतेन- देवता – पुरतः तस्य पितुः अङ्कगतस्य च। अलङ्कृतस्य दातव्यम् अन्नं पात्रे च काञ्चने ।

८. चूडाकरणम्- प्रायेण जन्मतः तृतीये वर्षेऽयं यज्ञीयः संस्कारः सम्पाद्यते। एतत्पक्षे अयं निर्देशो द्रष्टव्यः-

न जन्ममासे न च जन्मने तथा विधौ विरुद्धेऽशुभ-तारकासु ।

युग्माब्दमासे न च कृष्णपक्षे चूडा न कार्या खलु चैत्रमासे ।।

उपनयनम् वेदाध्ययनाय गुरोः समीप-गमनम् एव उपनयनम्।

व्रतबन्ध-यज्ञोपवीतादयः अस्य पर्यायाः । कथितञ्च-

गृयोक्त कर्मणा येन समीपं नीयते गुरोः ।

बालो वेदाय तद्योगात् बालस्योपनयं विदुः वर्णव्यवस्थानुसारम् एव कालः निर्दिष्टः।

अस्य मुहूर्तपक्षे अयं श्लोकः द्रष्टव्यः-

पूर्वाषाढ- हरित्रयेऽश्वि- मृगभे हस्तत्रये रेवती ज्येष्ठा – पुष्य-भगेषु चोत्तरगते भानौ च पक्षे सिते। गो-स्त्री- सिंह- धनुझषे विदि विधौ शुक्रे गुरौ भास्करे पञ्चम्यां दशमीत्रये व्रतमिह श्रेष्ठं द्वितीयाद्वये ।।

कर्णवधः- अयं संस्कारः सर्वैः आचार्यैः न स्वीकृतः, तथापि केचन म अयमपि संस्कारः । जन्मतः सप्तमे अष्टमे वा मासे क्रियमाणोऽयम्।

वेदारम्भः- उपनयानन्तरं गुरुम् उपगम्य शुभमुहूर्ते वेदारम्भः करणीय नित्यं सन्ध्योपासनं ब्रह्मचर्य पालनं गुरोः आज्ञया निर्दिष्टं कार्यं च कुर्व यथाकालं वेदाः अधीतव्याः । अस्यापि याज्ञिकी प्रक्रिया विद्यते।

समावर्तनम् वेदानाम् अध्ययनस्य पश्चात् गुरोः आश्रमात् गृहस्थ-धर्मे प्रवेशनस्य अधिकारः प्राप्तुकामोऽयं संस्कारः । यथा यज्ञोपवीते संस्कारे मेखलादि-धारणं भवति, तथैव अस्मिन् तन्मोक्षणं भवति। मुहूर्तविषये चण्डेश्वर मतं ध्यातव्यम्-

अनुकूले निशानाचे शुभस्थान-स्थिते रवौ।

चूडाकरणवत् कार्या मेखला – बन्धन – च्युतिः।।

व्रतबन्धोक्त- नक्षत्रे दिने लग्ने शुभान्विते ।

मेखला-मोक्षणं कुर्यात् उपाकर्म यथाविधि ।।

१२. विवाहः- आश्रम – चतुष्टये पञ्चविंशत्यवस्थां यावत् ब्रह्मचर्यम्। समावर्तस्य पश्चात् तस्मात् निवृत्तिः । अतः परं विवाहतः गृहस्थाश्रमः। विवाहो विशिष्टं वहनम्, दारपरिग्रहश्चेति । रीत्या सः अष्टविधः- ब्राह्मः, दैवः, आर्षः, प्राजापत्यः, आसुरः, गान्धर्वः, राक्षसः, पैशाचश्चेति। १३. अन्त्येष्टिः- अयम् अन्तिमः संस्कारः । अनेन अन्त्या इष्टिः, यज्ञः कथ्यते।

एते एव मुख्याः संस्काराः । एते सर्वे वैदिकरीत्या सम्पाद्यन्ते, तेन मनुना कथितम्-

निषेकादि- श्मशानान्तो मन्त्रैः यस्योदितो विधिः ।

तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्यचित् ।।