गृहमन्त्री श्री-अमित-शाहः उक्तवान् यत् आतंकवादिनां संरक्षणमपि आतंकवादस्य समर्थनमेव अस्ति
प्रधानमंत्री नरेंद्र मोदी सबलं कथितवान् यत् आतंकवादस्य विविध स्वरूपं विनष्टुं समेकित सहयोगस्य आवश्यता अस्ति, यतोहि कतिपयदेशाः स्वीयनीतेः अनुगुणं आतंकवाद समर्थन्ति सः अद्य नवदिल्ल्याम् आतंकिभ्यः घनापूर्ति-प्रतिबन्ध-सम्बद्धं तृतीय मंत्रिस्तरीय सम्मेलनं सम्बोधयति स्म। सम्मेलनस्य विषयः अस्ति “नो मनी फॉर टेरर” इति श्री मोदी उक्तवान् यत् आतंकवादस्य समर्थन कर्वतः देशान विरुध्य कथंचित् दण्डनिर्धारणम् सुनिशेष्यते आतंकवादिगतिविधिभ्यः वित्तपोषणम् अवलम्ब्य प्रधानमंत्री कथितवान् यत् सर्वेपि जानन्ति एतत्- आतंकवादिगुल्मेभ्यः सहस्रस्रोतोभ्यः धनापूर्तिः भवति एतेषु कतिपयदेशाना समर्थनमपसम्मिलित अस्ताश्री मोदी उक्तवान् यत् यत्र कुत्रापि आतंकिघटनाः दुरापाद्यन्ते, एतेषां विरोधेसमानाक्रोशभावपर कार्याचरणं आवश्यकं भवितव्यम्। प्रधानमंत्री कथितवान् यत् आतंकवादावसानं यावत् भारतं तूष्णीं भूत्वा नैव स्वास्यति। प्रधानमन्त्री आतंकवादस्य समूल एकीकृतसमानी आइन कृतवान्। संयुक्ताभियानं, गुप्तसमन्वयः प्रत्यर्पणं च आतंकवादस्य विरोधे युद्धे सहायप्रदं भवन्ति कट्टरवादोग्रवाद समस्यायाः समाधानाय सकलानां देशाना संघटनम् अतिमहत्वपूर्णम् अस्ति अथ आतंकवादस्य समर्थनं कुर्वतां देशानां बहिष्कारः अपि तथैवावश्यकः भवेत् प्रधानमंत्री कथितवान् यत् एतत्सम्मेलन भारते आयोजनं महत्वास्पदं अस्ति यतोहि भारतेन अनेक दशकानि यावत् आतंकसमस्या सम्मुखीकृतास्तिा आतंकवाद्याक्रमणेषु सहस्राधिकजनाः निधनं गताः । आतंकवादस्य अन्वेषणाय, निराकरणाय च प्रौदयोगिक्या उपयोगः कर्तव्यः अवधेयं यत् द्विदिनात्मके एतत् सम्मेलने आतंकिवादिभ्यः धनापूर्तिम् अवरोद्धुं उपायेषु विचार-विमर्शः विधास्यते। सम्मेलने अत्र सप्तत्यधिक- देशानां सार्धचतुः शतं प्रतिनिधयः सहभागिता कुर्वन्ति ध्येयं यत् सम्मेलनस्य प्रथमसत्रं गृहमंत्रिणः अमित शाहस्य अध्यक्षतायाम् आयोजयिष्यते।
गृहमन्त्री श्री अमित शाहः उक्तवान् यत् – आतंकवादिनां संरक्षणमपि आतंकवादस्य समर्थनमेव अस्ति सः उक्तवान् यत् केचन देशाः आतंकवादिनां संरक्षणाय प्रयतन्ते । गृहमन्त्री श्री अमितशाहः अद्य नवदिल्ल्यां ‘नो मनी फॉर टेरर’ सम्मेलने आतंकी वित्त पोषणम् अथ आतंकवादस्य वैश्विक परिणामः इत्यस्मिन् विषये सत्र सम्बोधयति स्म श्री अमित शाहः अवदत् यत् – आतंकवादस्य समर्थक-देशाः आतंकवादस्य विरुद्धं सामूहिक-सङ्कल्पं दुर्बलम् कर्तुम् इच्छन्ति गृहमन्त्री उक्तवान् यत् – आतंकवादस्य प्रायोजित-तत्त्वानाम् अथ समर्थक-तत्त्वानां प्रकाशनम् आवश्यकमस्ति । तेन उक्तं यत् – प्रविधेः प्रयोगद्वारा आतंकवादस्य स्वरूपं निरन्तरं परिवर्तनशीलं भवति श्री-अमित शाहः उक्तवान् यत्-आतंकवादस्य एतेषां विविधस्वरूपाणां विरुद्धं सङ्घर्षाय सामूहिक- प्रयासानाम् आवश्यकता अस्ति । सः अवदत् यत् आतंकवादिभिः याः अन्तर्जालीयमुद्राः उपयुज्यन्ते तासां प्रतिबन्धः अनिवार्यः अस्ति, भारतेन आतंकी- वित्त-पोषणस्य स्रोतसां प्रतिबन्धार्थं नैके प्रयासाः कृताः वर्तन्ते गृहमन्त्री उक्तवान् यत् विगतेषु कतिपय वर्षेषु सामूहिक प्रयासानां परिणाम-स्वरूपम् आतंकवादी- घटना: न्यूनाः अभवन् ।











