लक्ष्णपुरस्थ नवयुगकन्यामहाविद्यालये समायोज्यते गीताजयन्ती महोत्सवः

वार्ताहर:- प्रवेशकुमारशुक्लः, लक्ष्मणपुर

हर्षस्य विषयोSयं यत् आजादी अमृतमहोत्सवोपलक्ष्ये राजेन्द्रनगर-लक्ष्मणपुरस्थ नवयुगकन्यामहाविद्यालयस्य संस्कृतविभागे गीताजयन्ती उपलक्ष्ये डा. बंदना द्विवेदी महोदयायाः संयोजकत्वे महाविद्यालयस्य प्राचार्या प्रो. मंजुला उपाध्याय महोदयायाः अध्यक्षकत्वे राष्ट्रियसभायाः आयोजनमभवत्। भारतीयसंस्कृते विविधायामे अयं कार्यक्रमः अभूत्। संयोजिका डां बंदना द्विवेदी महोदयायाः मंगलानुशासनेन कार्यक्रमः प्रारम्भः अभवत्। सरस्वती बन्दना महाविद्यालयस्य छात्रा प्रतिभा द्विवेदी प्रस्तुतवती।
अस्यां राष्ट्रिय संगोष्ठ्यां मुख्यातिथित्वेन केन्द्रीयसंस्कृतविश्वविद्यालय एकलव्य – परिसरस्य डा. पवन दीक्षितेनोक्तं गीतायां सम्पूर्ण वेदस्य सारः निहितोSति । विशिष्टवक्तृत्वेन केन्द्रीयसंस्कृतविश्वविद्यालय लखनऊ-परिसरस्य ज्योतिषविभागस्य सहायकाचार्यःडा. अश्वनीकुमारपाण्डेयेनोक्तं गीतादर्शने धार्मिकसहिष्णुतायाः भावना अत्यन्तप्रभावशालीरीत्या निहितो भवति। तेनोक्तं यत् न केवलं भारते एव अपितु सम्पूर्ण विश्वे गीतायाः प्रचार-प्रसारः वर्तते। लखनऊ- विश्वविद्यालयस्य विशिष्टवक्त्री डा. भुवनेश्वरी भारद्वाज , कार्यक्रमस्य मंचसंचालनं डा. बंदना द्विवेदी, महोदया कृता। कार्यक्रमस्यान्तिमे प्रो. रीता तिवारी धन्यता ज्ञापितवती।अस्मिन् अवसरे महाविद्यालय-परिसरस्य डा. सुनीताद्विवेदी, प्रो. सुषमात्रिवेदी, प्रो. सीमा सरकार, डा. नेहा अग्रवाल, डा. संगीता शुक्ला, डा. विनीता सिंह, नीलम यादव, डा. अन्जुला कुमारी, डा. आभा दूबे, सुनीता सिंह भदौरिया , नेहा यादव प्रभृतयाः आचार्याः एवं महाविद्यालयस्य अन्येसदस्याः च समुपस्थिताः आसन्।