केन्द्रीयसंस्कृतविश्वविद्यालयस्थ लखनऊपरिसरे ‘‘लोकभाषा-प्रचार-समितिः’’ एवं “केन्द्रीयसंस्कृतविश्वविद्यालयस्थ लखनऊपरिसरः” इत्यनयोः मिलितानुकुलेन संस्कृतसम्भाषणशिवरस्योद्घटनसमरोहः अनुष्ठितः

वार्ताहर:- प्रवेशकुमारशुक्लः, लक्ष्मणपुर

अयि सुरभारती समुपासकाः ! केन्द्रीयसंस्कृतविश्वविद्यालयस्थ लखनऊपरिसरे 05/12/2022 तमे दिनाङ्के शिक्षाशास्त्रविद्या-शाखायां दशदिवसात्मकसरलसंस्कृतसम्भाषण शिविरस्यायोजनम् अभवत् । शिविरेऽस्मिन् शिक्षाशास्त्रविद्याशाखायाः सङ्कायप्रमुखाः प्रो.लोकमान्यमिश्रमहोदयाः अध्यक्षपदमलङ्कृतवन्तः। कथं सरलरीत्या संस्कृतं वक्तुं समर्थाः भविष्यन्ति ? सरलमानकसंस्कृतस्य का आवश्यकता ? इत्येतेषु विषयेषु आह्लादपूर्णमुद्बोधनं तैः प्रदतम् । उद्घाटनेऽस्मिन् विभागीयाः प्राध्यापकाः उपस्थिताः आसन्। प्रमुखशिविरसञ्चालकाः विभागीयप्राध्यापकाः डॉ.रुद्रनारायणनरसिंहमिश्रमहोदयाः संस्कृतसम्भाषणशिविरं सञ्चालितवन्तः। शिक्षाशास्त्रविभगीयाः प्रथमवर्षीयाः छात्राध्यापकाः छात्राध्यापिकाश्च शिविरे उपस्थिताः आसन्