मार्कण्डेय शारदेयः (पटना, बिहारस्थः)
शिवस्य हृदयं विष्णुः विष्णोश्च हृदयं शिवः ।
यथा शिवमयो विष्णुः एवं विष्णुमयं शिवः ।।
इत्येतासु पंक्तिषु अभेददर्शनं स्कन्दोपनिषदि दर्शितं शिवविष्ण्व्योः । प्रायेण एतादृशी दृष्टिः सर्वत्र प्राच्य – साहित्येषु विशेषेण दृश्यते । पुराणेष्वपि विद्यते, वेदैपि तद्यथा एकं सद् विप्रा बहुधा वदन्ति (ऋग्वेदः १. १६४.४६) इति कथनमपि पुष्टम्। सदेव ईश्वरः । ॐ तत् सदिति नामत्रयमपि ब्रह्मणः एव। कथितञ्च – ॐ तत्सदिति निर्देशो ब्रह्मणः त्रिविधः स्मृतः ( गीता- १७.२३)। सदिति कस्मात्तु, अस्तीति । ब्रह्म नित्यं शाश्वतं सनातनम् एव अस्ति, तेन तत् सदिति । ब्रह्मणः विस्तार एव ईश्वरः । ईश्वरस्य विस्तारी हरिहरी मुख्यौ सविशेषौ च। मुख्यत्वादिमी ब्रह्मैव निर्विशेषौ सविशेषी चा हरिहराविति हर इति कथने ‘हृ’ धातोः निष्पत्तिः । हरिरिति कथनेऽपि । हरति पापानीति हरः । हरति पापानीति हरिः । को भेदो हरहर्यो ? यथा परिचयक्रमे कोऽपि निर्दशति स रक्तवस्त्रः अरुणः, स कृष्णवस्त्रो वरुणः इति । तथैव ‘ह’ थाती अच्प्रत्ययधारी हरु तु ‘इन्’ प्रत्ययधारी हरिरिति। पुनः आयुध विशेषेण चक्रधरः हरिः तु शूलधरो हरः ।
अस्तु; हरिश्च हरश्चेति हरिहरौ इतीतरेतरद्वन्द्वः। हरिणा सह हरः इति मध्यम-पदलोपिनि तत्पुरुषे हरिहरः । द्वन्द्वे उभौ समानौ । अर्थात्; यथा हरिः तथा हरः । तत्पुरुषे ‘सहयुक्तेऽप्रधाने’ इत्यनेन हरः प्रधानः हरिश्चाप्रधानः । प्रश्नोऽत्र, को मुख्यो विग्रहः ? हरिहरौ इति कथने उभयोः साम्यम्। साम्येऽभेदः । अतः उभयोः अभेदेऽपि भेदः, भेदेऽपि अभेदो ध्येयः ।
अस्ति बिहारे हरिहरक्षेत्रम् इत्याख्यम् तीर्थम्। तन्नाम अधुना सोनपुरमिति । इदम् उपनगरं सारण – मण्डलान्तर्गतम्। राजधान्याः पारेगंगं गंगा – गण्डक्योः संगमे ऽवस्थितः । अत्र एशिया महाद्वीपस्य प्रसिद्धः पशुमेलापक आयोज्यते । पशुमेलापकत्वेन अस्योपनगरस्य विशिष्टा प्रसिद्धिः। अत्र हरिहरयोः प्रसिद्धं मन्दिरम् । जनश्रुतिरियं यद् अत्रैव गण्डक्याः तटे पौराणिकं गज-ग्राहयोः युद्धो जातः। श्रीहरिः स्वभक्तस्य गजस्य आर्तनादं श्रुत्वा वैकुण्ठाद् आगत्य चक्रेण ग्राहं छित्त्वा उभाभ्यां मुक्तिं प्राददत् ।
भागवत पुराणस्य अष्टमे स्कन्धे इयं कथा आगता । किन्तु तत्र वर्णिते भौगोलिक- विवरणे अत्रोपलब्ध- भौगोलिक स्थित्या न साम्यम्। भागवते त्रिकूट- पर्वतस्येयं घटना वर्णिता विद्यते । परन्तु सोनपुरस्य पार्श्वे न कोऽपि पर्वतः । अत्रत्यो भूभागः पूर्णतः उर्वरः । सर्वसश्याढ्या भूमिः । पुनः भागवते सरोवरतटस्य चर्चा, किन्तु अत्रत्यां श्रूयमाणानां किंवदन्त्यां गण्डकीतटस्यैव। अतः कथमपि वृत्तोऽयं सोनपुर इत्यस्य न भवितुम् अर्हति ।
महामहोपाध्यायेन डा. पाण्डुरंग काणे महोदयेन ‘धर्मशास्त्र का इतिहास’ इत्यस्य तृतीये भागे एतत्क्षेत्र-विषये नृसिंह पुराणस्य ६५.१८, पद्मपुराणस्य ६.१७६.४६, वराह पुराणस्य १४४ १४५, वामन पुराणस्य ८५.४७६ अंशाः संकेतिताः ।
अस्तु; एतत्पक्षे अन्वेषण- प्रवृत्तिः वर्द्धिता । एतत्सम्बन्धे राणाप्रसाद शर्मा महोदयः (ज्ञानमण्डल लिमिटेड, वाराणसी) स्वस्मिन् ‘पौराणिक कोश’ इत्यस्मिन् यत् कथयति तद् न उपयुक्तम् । हरिहर क्षेत्रस्य विवरणे द्वितीये अनुच्छेदे सः कथाप्रसंगम् उद्धरति । किन्तु विचारणीयं यद् राणा महोदयेन भागवतस्य यस्य श्लोकस्य (८.३.३०) संकेतः कृतः, तस्मिन् सोन्तः सरस्युरुबलेन गृहीतः इत्यस्मिन् ‘सरसि’ अस्ति, नदी नैव। किं नदी-सरस्योः अभेदः? न कदापि । पुनः ‘हिन्दू धर्मकोश’ इत्यस्मिन् सम्मान्यः सम्पादकः डा. राजबली पाण्डेयः अस्य क्षेत्रविशेषस्य परिचये गज-ग्राहयोः कथां न प्रस्तौति, न भागवतम् उद्धरति एव, अपितु शब्द- कल्पद्रुमस्य वराह-पुराणीयम् उद्धरणम् एव प्रस्तुतीकरोति। तद्यथा-
ततः स पंचरात्राणि स्थित्वा वै विधिपूर्वकम् । गोधनान्यग्रतः कृत्वा हरिक्षेत्रं जगाम ह । ।
हरिणाधिष्ठितं क्षेत्रं हरिक्षेत्रं ततः स्मृतम् । सदानन्दी शूलपाणिः गोधनेन पुरस्कृतः ।।
स्थितवान् तद्दिनादेव तत् क्षेत्रं हरिहरात्मकम् । देवानाम् अटनात् चैव देवाट इति संज्ञितम् ।।
शब्द – कल्पद्रुमस्य रचयित्रा राजा राधाकान्त देव इत्याख्येन परम- विदुषा एतस्य पुण्यक्षेत्रस्य विषये यत्कथितं तन्मृषा न भविष्यति । आशयोऽयं यत् स एतेन क्षेत्रेण परिचित आसीत् । स भारतीयायाः संस्कृत्याः प्रकाण्डः पण्डित आसीत्। स लिखति- ‘हरिहरक्षेत्रं क्ली, (हरिहरस्य क्षेत्रम् ।)
तीर्थविशेषः। सः तु पाटलिपुत्र- नगरस्थ- भागीरथ्युत्तरपारे वर्तते। तस्य नामान्तरं ददरिक्षेत्रं तद्देशीया वदन्ति। तत्र गंगा-गण्डक्योः संगमे कार्तिक- पौर्णमास्यां स्नानार्थं जनसमूह- मेलनं भवति ।
तस्य महाविदुषः स्थितिकालः १७८४ तः १८६७ यावत् सृष्टीयं वर्षम् अस्ति। अर्थात्; तस्य कालः अस्मात् समयात् २३७ तः १५४ वर्षपूर्वम्। अवश्यमेव प्रचलने अस्मात् कालाद् एव आगच्छन् भविष्यति। स्पष्टमिदं यत् तस्मिन् कालेऽपि तीर्थम् एतत् प्रसिद्धम् आसीत्। अतो गवेषणायाः विषयो ऽयम् ।
अन्वेषणे वराह-पुराणस्य १४५ तमे अध्याये दृष्टिः स्थिरा भवति । तत्र गज-ग्राहयोः कथा नास्ति, किन्तु हरिहरयोः चर्चा, गंगा-गण्डक्योः संगमस्य च विवरणम् उपलभ्यते। तद्यथा-
शिवो मे दक्षिणस्थाने तिष्ठन् वै विगतज्वरः ।
लोकानां प्रवरः श्रेष्ठः सर्वलोकवरौ हरः ।।
तं ये विन्दन्ति ते देवि नूनं मामेव विन्दति।
ये मां विन्दन्ति देवेशि ते विन्दन्ति शिवं परम् ।।
अहं यत्र शिवस्तत्र शिवो यत्र वसुन्धरे।
तत्राहम् अपि तिष्ठामि आवयोः नान्तरं क्वचित्।।
शिवं यो वन्दते भमे स हि मामेव वन्दते।
लभते पुष्कलां सिद्धिम् एवं यो वेत्ति तत्त्वतः।।
एषाम् उद्धृतानां श्लोकानां पाठेन अवगम्यते यद् अत्र विष्णु-शिवयोः नैकट्यम् अभेदश्च दर्शितः । अनेनैव उभयोः नामयोगाद् हरिहरयोः क्षेत्रम्, हरिहरक्षेत्रम् इति। नामोल्लेखे पुण्यप्रदर्शने कथितञ्च-
ततः स पंचरात्राणि स्थित्वा वै विधिपूर्वकम् ।
गोधनान्यग्रतः कृत्वा हरिक्षेत्रं जगाम ह ।।
हरिणाधिष्ठितं क्षेत्रं हरिक्षेत्रं ततः स्मृतम् ।
सदानन्दी शूलपाणिः गोधनेन पुरस्कृतः ।।
स्थितवान् तद्दिनादेव तत् क्षेत्रं हरिहरात्मकम् ।
देवानाम् अटनात् चैव देवाट इति संज्ञितम् ।।
पुनश्च,
एवम् एतद् महाभागे क्षेत्रं हरि-हरात्मकम् ।
मृता येऽ गतिं यान्ति मम कर्मानुसारिणः । ।
मुक्तिक्षेत्रं प्रथमतः रुरुखण्डं ततः परम् ।
सम्भेदो देवनद्योश्च त्रिवेणी च ततः परम् ।।
क्षेत्रं प्रमाणं विज्ञेयं गण्डकी – संगतः परम् ।
एवं सा गण्डकी देवि नदीनाम् उत्तमा नदी ।।
गंगा मिलिता यत्र भागीरथ्या महाफला।
अपरं तद् महत् क्षेत्रं हरिक्षेत्रम् इति स्मृतम् ।।
रुरुखण्डम् इति कथने मृगाणां विचरण-भूम्याः बोधो जायते। गंगा-गण्डक्योः संगमः सोनपुरस्य निकटे एव, अतः इदमेव तत् पुण्यक्षेत्रमिति अस्य तीर्थोत्तमस्य महिमानं वर्णयन् कथयति-
आदी सा गण्डकी पुण्या भागीरथ्या च संगता
तस्य तीर्थस्य महिमा ज्ञायते न सुरैरपि।
अस्तु, गंगा-गण्डकी-संगमो हि हरिहरक्षेत्रम्, तथापि गजेन्द्रमोक्षस्य कथा अत्र न सम्बद्धा । भागवतवद् वामन पुराणेऽपि गज-ग्राहयोः कथा आगता, किन्तु त्रिकूट पर्वतस्य सरसः उल्लेखः अत्रापि-
तस्मिन् सरसि दुष्टात्मा विरूपो ऽन्तर्जलेशयः ।
आसीद् ग्राहो गजेन्द्राणां रिपुराकेकरेकक्षणः।। (८५.१८)
त्रिकूटपर्वतः पंजाबे, महाराष्ट्र, बिहारे, जम्मू-कश्मीरे, लेकायां चेति विभिन्न स्थानेषु निर्दिष्टा न जाने कि सत्यं, कि मृषेति । सम्भवतः पाण्डुरंग महोदयोऽपि न निश्चितवान्। अनेनैव कारणेन कल्पना मत्या काणे महोदय: दन्तकथात्मकमिति मतवान्। अतः त्रिकूटः कल्पितः एव सरस्थाने गंगा – गण्डक्योः संगमस्य पार्श्वे गर्त मत्वा अस्य तीर्थस्य पुष्टिः जायते।
अस्तुः अस्मिन् तीर्थे स्नातुं हरिहरयोः दर्शन-पूजनार्थं च दूर-दूरतः जना आगच्छन्ति। विशेषेण बिहारेतरेषु नेपाल, उत्तरप्रदेश, बंगाल -प्रभृतिभ्यः प्रदेशेभ्यः । अत्र पशूनाम् अतिप्रसिद्ध मेलापर्क च भवति, तु देशस्य प्रायेण सर्वप्रदेशेभ्यः विदेशेभ्यश्च लोका आगच्छन्ति।
शोचनीयों विषयोऽयं यत् कस्मिंश्चिदपि निबन्धग्रन्थे एतत्तीर्थं नोद्धृतम्। कार्तिक-पूर्णिमायाः सन्दर्भे निर्णयसिन्धी, धर्मसिन्धौ चापि एतस्य पुण्यक्षेत्रस्य वर्णनं न दृश्यते । स्पष्टमिदं यत् पुराण – साहित्ये अभाव एव । कारणं यद् निबन्धग्रन्थैः प्रायेण पुराणोक्तिः एव उद्द्धियते ।
सम्भवतः कार्तिक-स्नानस्य माहात्म्यं पुष्करेण, प्रयागेण, मधुरया च विशेषेण सम्बद्धः – कार्तिक्यां पुष्करं स्नातः सर्वपापैः प्रमुच्यते। मध्यां स्नातः प्रयागे तु मुच्यते सर्वकिल्विषैः । अतः इतरेषां महत्ता न्यूनीकरणे एषा गतिः । किन्तु; बिहारवासिनां निकट- प्रदेशवासिनां च कृते हरिहरक्षेत्रं विशिष्टानां तीर्थानां फलं दातुम् अवश्यमेव समर्थम् । यत्र गज-ग्राहौ तिर्यग्योनितः मोक्षं प्राप्तवन्तौ, तत्र पाप-पुण्याभ्यां मध्यमलोके विराजमाना मनुष्याः कथं न ऐहिकं सुखम् अधिगन्तुम् ऊर्ध्वं गन्तुं च समर्था भविष्यन्ति?











