के. सं. वि. वि. लखनऊपरिसरे व्याकरणविभागीया एकदिवसीया कार्यशाला आयोजिता

केन्द्रीयसंस्कृतविश्वविद्यालय-लखनऊपरिसरेण “षत्वविचार:” इति विषयमाश्रित्य दिनाङ्के 24.08.2022 एका कार्यशाला समायोजिता तस्या: आध्यक्ष्यम् परिसरनिदेशका: प्रो.सर्वनारायणझामहोदया: निर्व्यूढवन्त:। प्रमुखवक्तृरूपेण प्रो.भारतभूषणत्रिपाठिवर्या: आसन्। तत्र संयोजकत्वेन व्याकरणविभागीया: प्रो. धनीन्द्रकुमारझामहोदया: सहसंयोजकत्वेन डा.नीरजतिवारीवर्या: डा.प्रवीणकुमारचौधरीवर्या: आसन्। अस्या: सञ्चालनम् डा.प्रवीणकुमारचौधरीवर्या: अकुर्वन्। अस्यां कार्यशालायाम् प्रतिभागित्वेन शिक्षाशास्त्रविभागाध्यक्षाः प्रो.अवनीशअग्रवालमहोदयाः, प्रो.अशोकचन्द्रगौडमहोदयाः, प्रो.बच्चाभारतीमहोदयाः अन्येऽपि गणमान्याः आचार्याः शताधिकछात्राः शोधच्छात्राश्च आसन्। डा. प्रदीपकुमारदीक्षितवर्याणाम् धन्यवादज्ञापनेन इयं कार्यशाला पूर्णताङ्गता।