गत त्रीणि दिनाङ्के अन्तर्राष्ट्रियः दिव्यांगजन दिवसः आसीत् । अत्रावसरे राष्ट्रपतिपदासीना द्रौपदी मुर्मूः दिव्यान्गजनानां सशक्तिकरणाय उल्लेखनीयं कार्यं कृतवद्भ्यः जनेभ्यः, संस्थानेभ्यः अथ संगठनेभ्यः राष्ट्रीयपुरस्कारान् प्रदत्तवती। दिनमिदम् उपलक्ष्य समारोहः नवदिल्यां आयोजितः आसीत् । अत्र पुरस्कारेषु पंचविंशतिः गतवर्षाय अथ नवविंशति पुरस्काराः प्रवर्मानवर्षाय प्रदत्ताः । एते पुरस्काराः सर्वश्रेष्ठ दिव्यान्गजनानां, श्रेष्ठ दिव्यान्गजनानां श्रेष्ठ दिव्यान्ग बालकबालिकानां सशक्तिकरण दिशि कार्याचरणाय विभिन्नेषु श्रेणिषु प्रदत्तं गताः । अत्रावसरे राष्ट्रपतिः द्रौपदी मुर्मूः उक्तवती यत् अंतर्राष्ट्रीय दिव्यान्गजन दिवसस्य उद्देश्यं दिव्यान्गसंबद्धेषु प्रकरणेषु जागरूकतावर्धनम् अस्ति। दिव्यान्गजनेभ्यः स्वस्थ वातावरणं निर्मातुं राष्ट्रपतिना बलं प्रदत्तम् येन दिव्यान्गजनाः गरिमापूर्ण जीवनं यापयन्तु। ते विना भेदभावं राजनीतिक, सामाजिक, आर्थिक, सांस्कृतिक खेल गतिविधिषु चापि सहभागितां कर्तुं शक्नुवन्तु । अत्र समारोहे केंद्रीय सामाजिक न्याय अधिकारिता मंत्री वीरेंद्र कुमारः उक्तवान् यत् प्रधानमंत्रिणः नरेंद्र मोदीनिः नेतृत्वे केंद्रप्रशासनं सर्वतो दृशा विकासं सुनिश्चेतुं कार्याणि समाचरति येन दिव्यान्गजनाः आत्मनिर्भराः भवेयुः अथ देशमपि आत्मनिर्भरं कर्तुं योगदानं कुर्वन्तु। सः उक्तवान् यत् दिव्यान्गजनेभ्यः प्राशासनिकसेवासु चतुः प्रतिशतस्य आरक्षण प्रावधानम् अस्ति, सद्यः एव दिव्यान्गजनेभ्यः पदोन्नतौ अपि आरक्षणस्य प्रावधानं विहितम् अस्ति। समारोहे केंद्रीय सामाजिक न्याय अधिकारिता राज्य मन्त्री श्री रामदास अठावले अथ प्रतिमा भौमिकः अपि उपस्थितौ आस्ताम्।











