योगिनः उपदेशः (बाल कथा )

जयसुन्दरः नाम कश्चित् ग्रामप्रमुखस्य कार्यालये उद्योगं प्राप्तवान् । ततः अचिरात् तस्य विवाहः अपि अभवत् । तस्य पत्न्याः नाम कमला इति ।
पार्श्वगृहस्थानां धनिकत्वं दृष्ट्वा कमला असूयाम् असन्तोषं च प्राप्नोति स्म । अतः सा – “वस्त्राणि आभरणानि च आनीय ददातु इति सदा पतिं पीडयति स्म ।
पत्न्याः एतादृशपीडायाः कारणतः जयसुन्दरः कार्यालये श्रद्धया कार्य कर्तुं न शक्तवान् । सर्वदा अन्यमनस्कः एव भवति स्म सः । अतः ग्रामप्रमुखः तम् उद्योगात् निष्कासितवान् ।
अस्मिन् समये तं ग्रामं चिदानन्दनामकः कश्चित् योगी आगतवान् । तस्य महिमा सर्वत्र प्रसृतः आसीत् । एकस्मिन् दिने सायङ्काले जयसुन्दरः योगिनं दृष्ट्वा साष्टाङ्ग प्रणम्य – “स्वामिन् ! मम पत्नी मां बहुधा पीडयति अतः मम जीवने विरक्तिः उत्पन्ना अस्ति । योगिनः मोक्षं दातुम्, अपेक्षितं जन्म दातुं चापि समर्थाः भवन्ति इति श्रूयते । अतः मह्यं मानवेतरत् किमपि जन्म ददातु कृपया इति प्रार्थितवान् ।
तदा योगी हसन् – ” पुत्र ! भवान् कीदृशं जन्म इच्छति ? ” इति पृष्टवान।
तस्मये कस्माच्च्चित् वृक्षात् पुष्पाणि तयोः उपरि पतितानि। जयसुन्दरः सुगन्ध्युक्तानि तानि पुष्पाणि पश्यन् – “स्वामिन् ! अहं पुष्प जन्मं इच्छामि ” इति उक्तवान।
तदा योगी जयसुन्दरस्य ललाटे अङ्गुल्या किमपि लिखितवान् । तत्क्षणे जयसुन्दरः पुष्परूपेण परिवर्तितः अभवत् । एतेन आत्मनः जीवनं स्मरन् जयसुन्दरः यद्यपि क्षणकालम् आनन्दितः अभवत्, तथापि अपरक्षणे एव तस्य मनसि केचन विचाराः उत्पन्नाः अभवन् ।
‘अहं यस्मिन् वृक्षे अस्मि सः शुष्कः भवति चेत्, काचित् बालिका माम् अवचित्य मालां कृत्वा एकदिनानन्तरं मार्गे क्षिपति चेत् वा मम निश्चयेन कष्टं भवेत्’ इत्येवं विविधाः विचाराः तस्य मनसि उत्पन्नाः । तदा सः भीतः अभवत् ।
तस्मिन् एव क्षणे पार्श्वस्थायां शाखायां स्थितः कपोतः स्वस्य पक्षं चालितवान् । तदा जयसुन्दरः अनुक्षणं “स्वामिन् । मम पुष्पस्य जन्म मास्तु पक्षिजन्म ददातु इति प्रार्थितवान् ।
योगी ‘तथास्तु’ इति उक्तवान् । अपरक्षणे एव कपोतः सन् प्लवमानः सः वृक्षस्य उपरि गत्वा उपविष्टवान् । तस्मिन् समये तत्र आगतः एकः व्याधः तमुद्दिश्य एकं शरं प्रयुक्तवान् । परन्तु स च शरः लक्ष्यच्युतः अभवत् अतः कपोतरूपी जयसुन्दरः बाधितः न अभवत् । एतस्मात् भयग्रस्तः जयसुन्दरः उच्चैः आक्रोशं कुर्वन् योगिनः समीपम् आगत्य – “स्वामिन् । एतत् पक्षिजन्म अपि मास्तु माम् अजस्य मेषस्य वा जन्म ददातु ” इति प्रार्थितवान् ।
तत् श्रुत्वा योगी जयसुन्दरस्य स्कन्धे हस्तं प्रसार्य “पुत्र अजरूपेण मेषरूपेण वा स्थितवन्तं भवन्तं दुष्टाः मारयितुम् अर्हन्ति खलु !” इति उक्तवान् ।
तदा जयसुन्दरः योगिनं “स्वामिन् ! मां पुनः मनुष्यं करोतु” इति प्रार्थितवान् । एतत् श्रुत्वा तृप्तः योगी जयसुन्दरं स्पृशन् – “पुत्र ! अहं भवन्तं पुष्परूपेण कपोतरूपेण वा न परिवर्तितवान् । तथा कर्तुं मम शक्तिः नास्ति अपि । तत्तज्जन्मनः अनुभूतिः भवतः यथा भवेत् तथा केवलम् अहं कृतवान् । इतःपरं वा भवान् जीवनं वास्तविकदृष्टया पश्यन् जीवतु । भवान् सहनया धैर्येण च व्यवहरतु । चतुरोपायैः पल्याः स्वभावं परिवर्तन। श्रद्धया प्रामाणिकतया, आसक्त्या च कार्यं करोतु । तदा भवन्तं कोऽपि उद्योगतः निष्कासयिष्यति” इति उपदिष्टवान् । जयसुन्दरः नूतनं जीवनोत्साहं प्राप्य योगिनं नमस्कृत्य ततः गृहं गतवान् ।