अस्मद्देशीयाः ऋषयः पराशरः -बालकथा

कल्माषपादः नाम राजा मृगयार्थं कदाचित् अरण्यं गतवान् आसीत् । तत्र मार्गभ्रष्टः सः पर्वतमूलस्थे लघुमार्गे गच्छन् आसीत् । तावता वसिष्ठपुत्रः शक्तिमहर्षिः तत्र आगतः । राजा तं सूचितवान् यत् अपसरतु इति । तदा मुनिः उक्तवान्- ‘भवान् एव मार्गात् अपगत्य मम गमनार्थम् अवकाशं कल्पयतु’ इति ।
एतत् श्रुत्वा राजा क्रुद्धः । सः बाणेन मुनिं प्रहृतवान् । तदा कुपितः मुनिः – “मनुष्यः अपि भवान् मनुष्यः इव अव्यवहरन् पशुः इव व्यवहृतवान् । अतः भवान् तस्य जन्तोः रूपं प्राप्नोतु, यं जन्तुम् इतः परं भवान् ऐदम्प्राथम्येन द्रक्ष्यति” इति शापं दत्तवान् ।
तावता एव तेन मार्गेण गच्छन् कश्चन व्याघ्रः राज्ञा दृष्टः अपरक्षणे एव राजा व्याघ्रः इव गर्जन् अग्रे आगत्य मुनिं मारितवान्, तं खादितवान् च ।
अनन्तरं सः राक्षसरूपं प्राप्य ततः कुत्रापि निर्गतवान् शक्तिमुनेः पत्नी अदृश्यन्ती तत्समये गर्भवती आसीत् । द्वादश वर्षाणि अतीतानि चेदपि तस्याः गर्भतः शिशुः न निर्गतः । तत्प्रदेशवासिनः मुनयः परस्परं वदन्ति स्म यत् अदृश्यन्त्याः गर्भे स्थितः शिशुः मन्त्रपठनं कुर्वन् भवति इति । अग्रे कदाचित् शिशुः उत्पन्नः । तस्य नाम निश्चितम् अभवत् – ‘पराशरः’ इति कपिलपुलस्त्यादयः तम् अध्यापितवन्तः ।
पराशरः मातुः मुखात् श्रुतवान् यत् स्वपितरं मारितवान् जनः इदानीं राक्षसरूपेण अटति ।
इति । अतः सः समस्तराक्षसानां संहारार्थं कञ्चित् यज्ञम् आरब्धवान् । एतत् श्रुत्वा वसिष्ठः अन्यैः मुनिभिः सह आगत्य पराशरं प्रार्थितवान् यत् भवता यज्ञः स्थगनीयः इति । पितामहस्य वचनम् अङ्गीकृतवान् पराशरः । किन्तु एतावता सः यज्ञकुण्डे अग्निं ज्वालितवान् आसीत् । तस्य निर्वापणं तु शास्त्रविरुद्धम् । अतः पराशरः यज्ञकुण्डतः अग्निम् उन्नीय हिमालयदिशि वेगेन क्षिप्तवान् ।
तं हिमालये तदा तदा अग्निः उत्पद्यते, अरण्यं भस्मसात्करोति च । एतत् दृष्ट्रा जनाः परस्परं वार्तालापं कुर्वन्ति यत् हिमस्य द्रवीकरणार्थं पराशरेण क्षिप्तः अग्निः एव एवं तदा तदा दृश्यते इति ।