राष्ट्रपतिः द्रौपदीमुर्मुः नवदिल्ल्यां डिजिटल इण्डिया इति पुरस्काराः प्रदत्ताः , राष्ट्रपतिना उक्तवती यत् सामाजिक न्याय-डिजिटल नवाचार इत्यस्य प्राथमिकोद्देश्यं भवितव्यं। तदनन्तरं सा स्वकीये सम्बोधने उक्तवती देशस्य प्रत्येकस्मिन् भागे यदि डिजिटल प्रौद्योगिक्या: प्रापणं भविष्यति तर्हि भारतीया अर्थव्यवस्था अपि ज्ञानाधारिता भविष्यति। सा उक्तवती यत् भविष्यत्कालिकं परिवर्तनं साम्प्रतिकस्य परिवर्तनस्य तुलनायां द्रुततरा भविष्यति, यत्र च मुख्यभूमिका प्रौद्योगिक्याः भविष्यति। अत एव डिजिटल नवाचार इत्यस्य मुख्यलक्ष्यं सामाजिक न्याय: भवेत्। राष्ट्रपतिः उक्तवती यत् डिजिटल प्रौद्योगिक्या प्रशासनस्य दूरस्थानि क्षेत्राणि यावत् प्रापणं सुकरं विहितम्। सा उक्तवती यत् डिजिटल रूपान्तरणस्य इयं यात्रा नवाचार- प्रभाव-समावेशादिभिः कारणैः संभवा सञ्जातास्ति । सा पुरस्कार प्रदानानन्तरं विश्वसितवती यत् भारतदेशः समाजस्य वञ्चितान् गर्हितान् च विकास प्रक्रियायां सम्मेलनस्य उपयुक्तोदाहरणं प्रस्तुवन् अस्ति। सा उक्तवती यत् प्रशासनम् डिजिटल अन्त्योदय इत्यस्यां दिशि सामाजिक- सांस्कृतिक अधिकारान् सुद्दृढ़ान् करोति।











