प्रधानमन्त्री श्री-नरेन्द्रमोदी नवदिल्ल्याः मेजर ध्यानचन्द राष्ट्रिय- क्रीडान्गने विशाल-राष्ट्रिय जनजातीय महोत्सव – आदि-महोत्सवस्य शुभारम्भ कृत्वा जनसभां सम्बोधितवान् । श्रीमोदी उक्तवान् यत् आदि-महोत्सवः भारतस्य जनजातीय संस्कृतें अत्युत्तमा प्रस्तुतिः वर्तते । अस्मिन् अवसरे श्री-मोदी सर्वेभ्यः आदिवासिभ्यः शुभकामनाः प्रदत्तवान् । सः उक्तवान् – भारतस्य विविधता, अनेकता, एकता च अत्र सम्मेलने समाविष्टाः सन्ति । विगत-नववर्षेषु आदिवासिसमाजस्य हिताय सर्वकारः कार्यं कुर्वन् अस्ति । श्रीमोदी उक्तवान् – पूर्वसर्वकारेण वंश-वृक्ष-कर्तनस्य उपरि अपि च तस्य उपयोगे च प्रतिबन्धः स्थापितः आसीत् किन्तु भाजपाशासित-केन्द्रसर्वकारेण प्रतिबन्धः निष्कासितः अथ वंश-उद्योगस्य वर्धापनमपि सर्वकारेण क्रियते । श्री-मोदी उक्तवान्
-देशे विविधेषु राज्येषु वन-धन-मिशन-इत्यन्तर्गतं त्रिसहस्रतोऽप्यधिकानां वन-धन-विकास-केन्द्राणां स्थापनं कृतमस्ति । चतुर्दशाधिक- द्विसहस्रतमवर्षात् पूर्वं केचन एव वन-उत्पादाः न्यूनतम समर्थन मूल्यं प्राप्नुवन्ति स्म , किन्तु अधुना प्रायः नवति-लघु-वनोत्पादाः वर्तन्ते ये न्यूनतम समर्थन मूल्यं प्राप्नुवन्ति। प्रधानमन्त्री सबलं प्रतिपादितवान् यत् – जनजातिय-बालानां शिक्षा अथ तेषा भविष्यं सर्वकारस्य प्राथमिकता अस्ति । एतदर्थं सर्वकारेण देशे एकलव्य आदर्श आवासीय- विद्यालयानां संख्या पञ्चगुणीकृता वर्तते । प्रवर्तमानवर्षस्य वार्षिक्यां प्रधानमन्त्री विश्वकर्मा-कौशल-सम्मान योजनायाः आरम्भः कृतः अस्ति यया योजनया वित्तीय सहायता कौशल प्रशिक्षण व्यापारेषु च आदिवासि- समुदायेभ्यः सहायता प्राप्यते । एवमेव जनजातीय समुदायेभ्यः उद्योगावसराः अपि उपलभ्यन्ते । श्रीमोदी स्पष्टीकृतवान् यत् – देशे प्रप्रथमवारं बिरसा मुण्डा वर्यस्य जयन्तीम्, जनजातीय-गौरव-दिवस-रूपेण आचरण कर्तुम् आरम्भः कृतः वर्तते । सः अवदत् – आदि-महोत्सवः , एकं भारतम् – श्रेष्ठं भारतम्, इत्यस्य सारः अस्ति । अस्मिन् अवसरे श्री-मोदी जनजातिय स्वतन्त्रता सेनानिने बिरसा मुण्डाय श्रद्धञ्जलिं अपि समर्पितवान् । देशस्य सर्वेभ्यः राज्येभ्यः केन्द्रशासित प्रदेशेभ्यः सहस्रपरिमिताः जनजातिय-कलाकाराः अस्मिन् आदि-महोत्सवे भागं गृह्णन्ति । सप्तदशराज्याणां एकोनचत्वारिन्शत् वन-धन-विकास-केन्द्राणि अपि भागं भजिष्यति । अस्मिन् आदिमहोत्सवे जनजातीय हस्तशिल्पम्, वस्त्राणि, चित्राणि, आभूषणानि, वंशोत्पादाः, मृत्तिकया निर्मित पात्राणि, खाद्यपेयानि, प्राकृतिक उत्पादाः प्रदर्शिताः भवन्ति । जनजातीय समुदायद्वारा कृतं श्री-अन्नस्य प्रदर्शनं सर्वेषां ध्यानाकर्षक-केन्द्रम् अस्ति । अस्मिन् महोत्सवे द्विशताधिकानि आपणानि समृद्द जनजातीय सान्स्कृतिक – परम्परायाः प्रस्तुति कुर्वन्ति । अयं महोत्सवः फरवरी सप्तविन्शत् – दिनाकं पर्यन्तं प्रचलिष्यति ।











