प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत्भारतं डिजिटल भुगतानक्षेत्रे विश्वस्य अग्रणी अस्ति।
भारत-सिंगापुर-देशौ सम्मिल्य एकस्याः संयुक्त- डिजिटल देय-प्रणाल्याः शुभारम्भं विहितवन्तौ । अनया प्रणाल्याः द्वयोरेव देशयोः नागरिकाः त्वरया सरल-गत्या च परस्पर- आदान-प्रदानादिषु सौविध्यं प्राप्स्यन्ति । भारतस्य यूनिफाइड पेमेन्ट-इन्टरफेस – यूपी आई इतिसिंगापुरस्य पे-नाउ, इत्यनयोः मध्ये धनादान-प्रदानसौविध्यं सरलीकर्तु सन्धिः जाता । अस्य सौविध्यस्य संयुक्त- शुभारम्भम् अद्य रिजर्व बैंक- ओफ़् इण्डिया इत्यस्य प्रमुखः शक्तिकान्त-दासः, सिंगापुर-मौद्रिक- प्राधिकरणस्य प्रबन्ध निदेशकः रवि मेननः च कृतवन्तौ ।
प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् अनया प्रणाल्या फिनटेक -कनेक्टविटी इत्यनेन सह एकः नूतनाध्यायः योजिष्यते । सः प्रोक्तवान यत् अधुना जनाः अत्यल्प-सेवाशुल्केन तीव्रगत्या च सह चलदूरभाषयन्त्रेण परिजनेभ्यः धनं प्रेषितुं शक्नुवन्ति । सः प्रोक्तवान् यत् अन्यजनान् अतिरिच्य कार्मिकाः विद्यार्थिनः चापि अस्याः प्रणाल्याः लाभं समावाप्तुं शक्ष्यन्ति ।
डिजिटल – फिनटेक क्षेत्रयोः भारतस्य विकासम् उल्लेखयन् प्रधानमंत्री प्रोक्तवान् यत् भारते व्यापारं सरलं कर्तुं जीवनं सुगमं विधातुं च सुविधा: प्रदत्ताः सन्ति । सः प्रोक्तवान् यत् अनेन प्रशासनं जन-सेवा-तंत्रं च सुदृढं कर्तुं साहाय्यं प्राप्यते ।
सिंगापुरस्य प्रधानमन्त्री ली-सीन-लूंगः प्रधानमन्त्री नरेन्द्र मोदिनः नेतृत्वं प्रशंसयन् प्रोक्तवान् यत् इयं परिकल्पना सर्वप्रथमं प्रधानमंत्रिणः मोदिनः अष्टादशोत्तर- द्विसहस्रतमाब्दे जातायां सिंगापुर- यात्रावधौ कृता आसीत् । इदानीं यूपीआई-देयता-व्यवस्थायाः लोकप्रियतां दृष्ट्वा भारतीय-रिजर्व-बैङ्केन भारतं प्रति आगच्छन्तः सर्वेषां यात्रिकाणां कृते देशे स्थित्वा स्वस्य व्यापारिक-देयता-कृते यूपीआई-उपयोगस्य अनुमतिः प्रस्ताविता ।











