वार्ताहर: – डॉ.दिनेश: चौबे
उज्जयिनीस्थेमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालये वैक्रमाब्द: 2079 फाल्गुनशुक्ल दशमी तदनु मार्चमासस्य प्रथमतमे दिनाङ्के बुधवासरे षष्ठयुवमहोत्सवस्य भव्य: शुभारंभ: सञ्जातः। प्रदेशस्य उच्चशिक्षामन्त्रि: डॉ. मोहनयादवमहोदय:सर्वान् छात्रान् युवमहोत्सवस्य शुभकामना: प्रदत्तवान ।विशिष्टातिथिरूपेण उज्जैनसम्भागस्य सहायक पुलिसमहानिरीक्षिका
पार्वतीकनेशमहोदया स्व उद्वोधने उक्तवती यत् देशस्य सर्वविधं सार्वभौमं विकास: संस्कृतेन भवितुं शक्यते। प्रशासनिक सेवायां संस्कृतच्छात्रा: प्रयत्नाः कुर्युः। संस्कृत छात्राणां सर्वत्र उपस्थिति: भाव्या ।
कार्यक्रमस्य अध्यक्षः महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य मान्य: कुलपति: आचार्य: विजयकुमार: सी. जी मेननवर्य:, उक्तवान् संस्कृत छात्रेषु सर्वविधं सामर्थ्यं अस्ति छात्रा: स्व प्रतिभाकौशलं अत्र वर्धयेयु: महोत्सवे भागं वहन्तान छात्रान शुभकामना: च् अयच्छत् । कार्यक्रमस्य संयोजकेन् डॉ.तुलसीदासपारौहा महोदयेन अतिथीनां वाचिकं स्वागतं कृतम् प्रास्ताविकं डॉ. शुभम् शर्म महोदयेन प्रस्तुतम् । युव महोत्सवस्य शुभारम्भः शोभायात्रया जात:, तदनु योगेश्वरश्रीकृष्णयोगभवने कार्यक्रमस्य औपचारिकम् उद्घाटनं दीपप्रज्ज्वलनेन, वाग्देव्याः चित्रपटे मालार्पणेन च आरब्धम्। तदनु वैदिकमङ्गलाचरणम्, कुलगानं च् जातम् । कार्यक्रमेऽस्मिन् विश्वविद्यालयस्य कार्यपरिषदसदस्या: श्रीराजेन्द्र झालानी, श्रीमतीकिरणशर्मा, डॉ.विद्याजोशी श्रीसुशीलबाडिया महोदया:स्वविचारान् उपस्थापितवन्त: । कार्यक्रमे डॉ. अखिलेशकुमारद्विवेदीमहोदय:, डॉ. सङ्कल्पमिश्रमहोदय: डॉ. उपेन्द्रभार्गवमहोदय: सम्बद्धमहाविद्यालयस्य
विश्वविद्यालयस्य आचार्याः, समागताः शोधच्छात्रा:, छात्रा: सामाजिकाश्च उपस्थिता: आसन् सञ्चालनं श्रीआयुषदीक्षितेन आभारप्रदर्शनं विश्वविद्यालयस्य कुलसचिवेन डॉ.दिलीपसोनीमहोदयेन कृतम्।











