पाणिनिसंस्कृत-विश्वविद्यालये युवमहोत्सवस्य आयोजनम्

वार्ताहर: – डॉ.दिनेश: चौबे

उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालये मार्चमासस्य प्रथम-द्वितीये दिनाङ्कयो: युवमहोत्सवस्य आयोजनं भविष्यति ।
कार्यक्रमस्य औपचारिकं उद्घाटनं प्रथमदिनाङ्के एकादशवादने करिष्यते। अस्मिन्कार्यक्रमे सम्बद्धमहाविद्यालयस्य विश्वविद्यालयस्य च छात्रा: प्रतिभागं करिष्यन्ति। कार्यक्रमे मुख्यातिथिरूपेण प्रदेशस्य उच्चशिक्षामन्त्रि: डॉ. मोहनयादवमहोदय: आमन्त्रित: अस्ति,विशिष्टातिथिरूपेण उज्जैनसम्भागस्य सहायक पुलिसमहानिरीक्षिका पार्वतीकनेशमहोदया उपस्थिता भविता । युवमहोत्सवस्य शुभारंभ: शोभायात्रया भविष्यति शोभायात्रा श्रीमधुकरशारीरिक शिक्षामहाविद्यालयदारभ्य विश्वविद्यालयस्य योगेश्वरश्रीकृष्ण योगभवनपर्यन्तं आगमिष्यति।विश्वविद्यालयस्य कुलसचिवेन डॉ.दिलीपसोनीमहोदयेन उक्तं यत् युवमहोत्सवे शैक्षिक- सांस्कृतिक – क्रीडास्पर्धा च् आयोजिष्यते। तत्र शास्त्रार्थस्पर्धा काव्यपाठ: श्लोकान्त्याक्षरि वादविवाद: आशुभाषणं, एकलसंस्कृतगीतं, सामूहिकसंस्कृतगीतं, एकलनृत्यं, समूहनृत्यं, योगासनं, रङ्गोली, शोधनिबंधलेखनादि प्रतियोगिता:सन्ति । क्रीडाप्रतियोगितासु तत्र धावनम् , लम्बकूर्दनम् , उच्चकूर्दनम्, भल्लक्षेपणम्, चक्कक्षेपणम् , कबड्डी गोलक्षेपणादि प्रतियोगिता: आयोजिष्यन्ते।