केन्द्रीय आय-व्यय पत्रके कृताः घोषणा: अवलंब्य प्रधानमंत्री नरेंद्र मोदी एक अंतर्जालपरं सम्मेलनं सम्बोधितवान् । अस्मिन् वर्षे प्रस्तुत आयव्ययपत्रक: देशे आधारभूतसंरचनाक्षेत्रस्य विकासस्य गतिः त्वरितः भविष्यति इति प्रधानमन्त्री नरेन्द्रमोदी उक्तवान्। सः अवोचत् यत् आधारभूत संरचनानां विकासः कस्यापि देशस्य प्रगतेः महत्त्वपूर्णः स्तम्भः अस्ति। आधारभूत संरचना अथ निवेश: इति विषयिनी एषा अंतर्जातीयसंगोष्ठी आसीत्। वित्त संकल्प प्रस्तुतेः अनंतरं प्रशासनेन आयोज्यमानेषु सम्मेलनेषु एषा द्वादशसंख्यायुता संगोष्ठी आसीत्। एतेन माध्यमेन वित्त पत्रीय घोषणानां कार्यान्वयनाय विमर्श: समाचरितम् । अवधेयमस्ति यत् आधारभूतसंरचा निवेश: च प्रशासनस्य प्राथमिकता परेशु क्षेत्रेषु एकतमः वर्तते । एतस्य सम्मेलनस्यायोजनं पथपरिवहन राजमार्गमंत्रालयेन वाणिज्योद्योग मंत्रालयेन च क्रितम् । सम्मेलने श्री मोदी अवोचत् यत् आधारभूतसंरचनाविकासाय आगामिषु वर्षेषु एकलक्ष कोटितोप्यधिक रूप्यकाणां निवेशस्य लक्ष्यं प्रशासनेन निर्धारितम्। प्रधानमन्त्रिणा एतदपि प्रोक्तं यत् आधारभूतसंरचनाक्षेत्रे सर्वेषां पक्षाणां कृते नूतनं उत्तरदायित्वं ग्रहीतुं नूतनानां सम्भावनानां अन्वेषणं कर्तु दृढनिर्णयान् ग्रहीतुं च समयः अस्ति। श्री मोदी इत्यनेन उक्तं यत् स्वातन्त्र्यानन्तरं आधारभूतसंरचनानां आधुनिकीकरणे कोऽपि बलः न दत्तः इति दुर्भाग्यम् । प्रधानमन्त्रिणा उक्तं यत् गतिशक्तिराष्ट्रीयगुरुयोजना देशस्य आधारभूत संरचनायाः, तत्सम्बद्धव्यवस्थानां च नूतनं गतिं दास्यति।
आर्थिक-अन्तर्निर्मित-नियोजन-विकासयोः परस्परं संयोजनस्य महत्त्वपूर्ण साधनम् इत्यपि सः अवदत् । श्री मोदी इत्यनेन उक्तं यत् प्रधानमन्त्री गतिशक्तिगुरुयोजनायाः परिणामाः अधुना दृश्यन्ते तथा च योजनायाः कार्यान्वयनार्थं बाधां जनयन्तः व्यवस्थागताभावाः प्रशासनेन चिह्निताः । सः अवदत् यत् अस्मिन् वर्षे प्रस्तुते आयव्यय पत्रके एकशतं महत्त्वपूर्णाः परियोजनाः प्राधान्यं दत्तवन्तः, पंचसप्ततिः सहस्रकोटिरूप्यकाणि च विनियोजिताः सन्ति । श्री मोदिना उक्तं यत् कस्यापि देशस्य अर्थव्यवस्थायाः विकासः केवलं आधारभूतसंरचनायाः विकासेन भवति तथा च एतस्याः अवधारणायाः कार्यान्वयनेन भारतं पंचसप्ततिः अधिक द्विसहत्रतमवर्षपर्यन्तं विकसितदेशत्वस्य लक्ष्यं साधयिष्यति। प्रधानमन्त्रिणा उक्तं यत् देशे सामाजिकसेवासम्बद्ध-व्यवस्थां सुदृढं कर्तुं भौतिकमूलसंरचनानां सुदृढीकरणमपि आवश्यकम्। सः अवदत् यत् समाजसेवा सुदृढात् राष्ट्रसेवायाः कृते अधिकाः प्रतिभाशालिनः कुशलाः च युवानः उपलभ्यन्ते ।











