राष्ट्रपति पदासीना द्रौपदीमूर्मू: नवदिल्ल्यां जलशक्त्याभियानान्तर्गतं “कैच द रेन” इत्यस्याभियानस्य शुभारम्भम् अकरोत्। ध्यातव्यं यत् , अस्योद्देश्यं पेयजलस्त्रोतसां निरवधिकतया स्थिरीकरणम् , तथा जनानां सक्रियभागित्वेन सह राज्यान् सर्वान् हितधारकान् च जलवायुस्थितेः उपमृदास्तरस्य च अनुकूलानि वर्षाजलसंग्रहणसंरचनानि निर्मातुं प्रेरयन्ति, इत्यस्ति।
“वर्षा गृहाण – यत्र पतति यदा पतति” इति कार्यक्रम देशे प्रतिवर्षं पूर्व-मानसून मानसून कालस्य च कालखण्डे प्रचलति । अभियानस्य केन्द्रितहस्तक्षेपाः सन्ति – १) वर्षाजलसंग्रहणं जलसंरक्षणं २) सर्वेषां जलनिकायानां गणना, जिओ-टैगिंग् सूचीकरणं च जलसंरक्षणार्थं वैज्ञानिकयोजनानां निर्माणम् ३) सर्वेषु जिल्हेषु जलशक्तिकेन्द्राणां स्थापना ४) गहनवनीकरणं तथा ५) जागरूकता जननम्। कैच द रेन अभियानस्य अन्तर्गतं धनस्य आवंटनं उपयोगश्च केन्द्रराज्यसर्वकारस्य विभिन्नविकासकार्यक्रमानाम्/ योजनानां अन्तरक्षेत्रीयसमागमद्वारा भवति। पृथक् धनं न आवंटितम्। अस्याः योजनायाः कार्यान्वयने मध्यप्रदेशराज्यम् अग्रणी अस्ति, केवलं मनरेगाद्वारा एव प्रायः ७०० कोटिरूप्यकाणि व्ययितानि सन्ति ।
श्रीमति द्रौपदीमूर्मूः उक्तवती यत् जलसंक्षणं प्रबन्धनञ्च भारतस्य कृते महत्त्वपूर्णविषये स्तः, यतः भारते जलसंसाधनानि चत्वारि प्रतिशतान्येव सन्ति। तया कथितं यत् अनियोजित-नगरीकरणत्वात् देशे जलसंरक्षस्य पारंपरिकप्रकाराः लुप्तप्रायाः सन्ति । अस्माद्धेतोः जलाभावः अपि च पर्यावरणसम्बद्ध समस्याः उत्पद्यन्ते। सा एतदपि प्रतिपादितवती यत् आधुनिक प्रविधिना सह जलसंरक्षणस्य पारंपरिकप्रकाराः अपि अनुसर्तव्याः ।
अत्रान्तरे राष्ट्रपति पदासेना सुश्री मुर्मू नवदिल्ल्यां स्वच्छसुजल-भारतस्य निर्माणार्थं जलसंरक्षणक्षेत्रे सक्रियमहिलाभ्यः पारितोषिकं प्रदत्तवती। इमे पुरस्काराः स्वच्छभारताभियानान्तर्गतं ग्रामीण, जलजीवनाभियानान्तर्गतं अपि च राष्ट्रीयजलाभियानान्तर्गतं विभिन्नश्रेण्यां प्रदताः । अवसरेऽस्मिन् जलशक्त्या नारीशक्तिः इति दृश्याङ्कनम् अपि च स्मारकप्रैषपत्रमपि विमोचितम्। कार्यक्रमावधौ जलशक्तिमन्त्री गजेन्द्र सिंह शेखावत: समुदीरितवान् यत् प्रधानमन्त्रिणः दूरदर्शी – नेतृत्वफलादेव भारतेन जल्शक्त्याभियाने असाधारण साफ़ल्यम् आसादितम्।











