जीविंशति-समुहस्य विदेशमंन्त्रिणां उपवेशन्

दृश्य-श्रृव्य-संदेश- माध्यमेन जीविंशति-समुहस्य विदेशमंन्त्रिणां उपवेशनस्य उद्घाटनसत्रं संबोधयन् प्रधानमन्त्री श्रीमोदी स्वविश्वास प्रकाटितवान् यत् अद्य संजायमानं इदम् उपवेशनं पारस्परिकानां सुदृद्धानां उद्देश्यानां प्राप्तकर्तुं ऐक्यस्य प्रतिबिम्बनं करोतीति । उपवेशनमिदम् नवदिल्ल्यां राष्ट्रपति भवनस्य सांस्कृतिक केन्द्रे प्रचाल्यमानं अस्ति। विश्वस्य उत्पादन-विकास-वित्तियस्थिरता- खाद्यसुरक्षा चेत्येतेषां प्रत्याव्हानानां अपचियार्थ जी-विंशतिं प्रति सर्वे आशान्विताः सन्ति। प्रधानमन्त्री नरेन्द्र-मोदी उक्तवान् यत् भारतस्य जी-विशंति अध्यक्षताया: विषयोस्ति एका धरती, एको परिवार:, भविष्मेकम् च। लक्ष्यमिदम् कार्यकलापानां ऐक्यस्य आवश्यकतायाः संकेतं प्रदर्शयति इति । प्रधानमन्त्री उक्तवान् यत् गभीर वैश्विक मतभेदानां समये इदमुपवेशनं प्रभवन्नस्ति एतदर्थं अस्मिन् उपवेशने स्वाभाविकं अस्ति यत् विदेश-मन्त्रिणां चर्चा: भू-राजनीतिक आततिभिः प्रभाविता भविता । श्रीमोदी समुदीरितवान् यत् जी-विंशति- समुहस्य सदस्यदेशाः एतेषां समस्यानां समाधानाय स्वहितप्रचाल्मानाः विचाराः दृष्टिकोणाः च स्थापयन्ति । प्रधानमन्त्री उक्तवान् यत् उत्तर- विश्वयुद्धा वैश्विक- शासनव्यवस्था भविष्ययुद्धानं परिहाराय पारस्परिक हितानां प्रकरणेषु अन्ताराष्ट्रिय सहमतिं निर्माणाय असफला संजाता। श्री मोदिना इतोपि उक्तं यत् अस्या: असफलतायाः सर्वाधिका: दारुण- परिणतयः सर्वान् विकासशीलदेशान् सम्मुखे आगच्छन्ति अपि च वर्षाणां प्रगतिः पुरस्सरं पुनरेकवारं विश्वस्य सततं विकास अवरुद्धं भविष्यति एषा संभावना प्रबला जाता। प्रधानमन्त्री उक्तवान् यत् विकासशीलदेशा- स्वनागरिकानां खाद्यसुरक्षा ऊर्जासुरक्षा सुनिश्चियितुम् सतत-ऋण समस्यात: त्रस्ता जाता: ।
प्रातः काले स्वप्रारंभिके समुद्घोषणे विदेशमन्त्री एस. जयशंकर: कोविड्- महामार्याः प्रत्याव्हानं, दुर्बला- शिथिला-आपूर्ति- श्रृंखला, जायमानाः संघर्षाः, ऋण-समस्या, जलवायु- सम्बद्ध- आपत्- समस्या चेत्येतेषां समस्यानां समाधानाय मतैक्यस्य आवश्यकतां चिन्हितवान्। विदेशमन्त्री उक्तवान् यत् केचन् तीक्ष्ण-मतभेद-बिन्दवः मतान्तराणि ऐषु वैश्विक प्रकरणेषु सन्ति परन्तु सदस्यदेशाः अनिवार्यत्वेन समाधानमपि समाधेयुः यतो हि सम्पूर्ण-विश्व: तेभिः एवमेव आशां करोतीति। विदेशमन्त्री एस. जयशंकर जी विशंति- विदेशमन्त्रिणाम् उपवेशनस्य प्रथमसत्रस्य अध्यक्षतां विहितवान् ।