गत अङ्कस्य अवशिष्टं ….”तथा कृतं चेत् कः लाभः ?” इति पृष्टवान् देवराजः । परस्परं चर्चा कृत्वा पिशाच्यौ ‘आवाभ्यां यथा उच्यते तथा आचर्य पल्या कृतां प्रतिक्रियाम् अत्र रात्रौ आगत्य वदतः चेत् द्वयोः कृते अपि सुवर्णनाणकानि दास्यावः” इति उक्तवत्यौ । सुवर्णनाणकस्य विषयं श्रुत्वा आनन्देन- “किं करणीयम् इति वदतां तावत्” इति उक्तवान् रामः ।
ताभ्यां यद्यत् करणीयं तत्सर्वम् उक्त्वा – “यावत् उक्तं तावदेव करणीयम् । एतदतिरिच्य किमपि न करणीयम् । श्रः रात्रौ अत्र आगच्छताम्” इति सूचितवत्यौ पिशाच्यौ ।
पिशाचीभ्याम् उक्तं स्मरन्तौ गृहं प्राप्तवन्तौ रामः देवराजच । द्वारम् उद्घाटयन्ती रामस्य पत्नी ‘भवान् रिक्तहस्तः सन् प्रत्यागतवान् इव दृश्यते । दर्पणः न आनीतः वा ?” इति पृष्टवती । तदा रामः उत्तरं किमपि अकथयन् पत्नीम् अपसार्य अन्तः आगतवान् ।
“किं भवान् उन्मत्तः जातः ?” इति वदन्ती सरभसं द्वारं पिहितवती रामस्य पत्नी ।
अत्रान्तरे देवराजस्य पत्नी अपि द्वारम् उद्घाट्य रिक्तहस्तं पतिं दृष्ट्रा – “कूटयन्त्रं कुत्र ?” इति पृष्टवती । उत्तररूपेण पत्नीं बलात् आकृष्य अपसार्य अन्तः गतवान् देवराजः । अनिरीक्षिताम् एतां घटनां दृष्ट्रा चकिता सा “भवान् पिशाचग्रस्तः इव भाति” इति आक्रोशं कृतवती ।
अनन्तरदिने रात्रौ रामदेवराजौ अरण्यं गत्वा स्वस्य आचरणं पल्याः प्रतिक्रियां च पिशाच्योः समीपे विवृतवन्तौ । तत् श्रुत्वा सम्यक् हसन्त्यौ पिशाच्यौ वृक्षस्य कोटरे विद्यमानं सुवर्णनाणकद्वयम् आनीय एकैकस्मै एकैकं नाणकं दत्तवत्यौ । नाणकं स्वीकृत्य प्रस्थितवन्तौ तौ पुनः आहूय “तिष्ठताम् । आवयोः विनोदस्वभावः अस्ति । अन्यथा मा चिन्तयताम् । भवन्तौ अधिकं सुवर्णं प्राप्तुं न इच्छतः वा ?” इति हसन्ती पृष्टवती वामना पिशाची ।
“सुवर्णप्राप्तेः इच्छा कस्य वा न भवति ? यदि शक्यते तर्हि एकदिनाभ्यन्तरे लक्षाधिपतिः भवितुम् इच्छामि’ इति उक्तवान् देवराजः । “अहं तु सूर्योदयात् पूर्वम् एव कोट्यधिपतिः भवितुम् इच्छामि ” इति कोषे विद्यमानं नाणकं स्पृशन् उक्तवान् रामः । एतयोः वचनं श्रुत्वा पिशाच्यौ परस्परं मुखं पश्यन्त्यौ हसितवत्यौ । अनन्तरम् उन्नता पिशाची “अपेक्षाकरणम् अपराधाय न । किन्तु अपेक्षापूरणार्थम् अत्रत्यस्य श्रीगन्धकाष्ठस्य गजदन्तानां च चौर्यं, ततः कारागृहप्राप्तिः च न उचिता । सुवर्णनाणकानि आवश्यकानि चेत् अद्यापि आवयोः कथनानुगुणम् आचरणीयं, गृहे यद्यत् प्रवृत्तं तत्सर्वं श्वः अत्र आगत्य वक्तव्यं च” इति उक्त्वा ताभ्यां किं करणीयम् इति विवृतवती ।
तस्मिन् दिने रात्रौ तौ यथापूर्व गृहं प्राप्तवन्तौ । पत्नीं दृष्ट्रा कोपेन – “भवत्याः मुखम् अनिष्टकारकम् । अतः एव लक्षशः रूप्यकाणां सम्पादनस्य सामर्थ्ये सति अपि प्रतिदिनं चत्वारि रूप्यकाणि अपि सम्पादयितुं न शक्नोमि । धिक् भवतीम् । धिक् मानहीनताम् । यदि मानः स्यात् तर्हि मातृगृहं प्रति गमनं वरं स्यात्” इति उक्तवन्तौ । पत्युः एतादृशं निन्दनवचनं श्रुत्वा अपि ते उभे अपि मौनं स्थितवत्यौ । तस्मिन् दिने रात्रौ पुनश्च रामदेवराजौ अरण्यं गत्वा प्रवृत्तं सर्वं निवेदितवन्तौ । “आश्चर्यं नाम यावत् वा तर्जितं चेत् अपि आवयोः पल्यौ मातृगृहं न गतवत्यौ एव” इति उक्तवन्तौ ।
तयोः वचनं श्रुत्वा, पिशाच्यौ न – आनन्दिते, अपि तु दुःखिते । तयोः महती निराशा अभवत् । द्वे अपि एककण्ठेन “हा धिक् । द्वे अपि स्वीकुलीये भवितुं नार्हतः एव । एतादृशः अवसरः यदा आवाभ्यां सम्मुखीकृतः आसीत् तदा आवां कोपेन गृहस्य पृष्ठतः विद्यमाने कूपे पतनपूर्वकं प्राणान् त्यक्त्वा पिशाचजन्म प्राप्तवत्यौ । भवतोः पल्यौ दृढमनस्के” इति उक्तवत्यौ ।
तावता – “आवां दृढमनस्के इति तु सत्यम् । किन्तु भवत्यौ इव मूर्खे तु सर्वथा न” इति वचनं श्रुत्वा पिशाच्यौ, रामदेवराजौ च चकिताः ।
पतौ हठात् जातं परिवर्तनं दृष्ट्रा चकिते रामस्य पत्नी, देवराजस्य पत्नी च पतिम् अनुसृत्य आगतवत्यौ आस्ताम् । प्रवृत्तस्य कारणं पिशाच्यौ एव इति ज्ञातवत्यौ आस्तां च । अतः ते आत्मना सह आनीतया निम्बशाखया उभे अपि पिशाच्यौ सम्यक् ताडितवत्यौ । तदा आक्रोशं कुर्वत्यौ पिशाच्या वटवृक्षस्य उपरि उड्डीय अदृश्यतां गते । ततः रामदेवराजौ उद्दिश्य – “अलं भवतोः नाटकेन । गृहं प्रति आगम्यताम्’ इति कोपेन उक्तवत्यौ ।
पिशाचीभ्याम् इव आवाभ्याम् अपि ताडनं प्राप्तव्यं भवेत् इति चिन्तयन्तौ रामः देवराजः च भीतौ । अत्रान्तरे किमपि स्मरन् देवराजः “हा, स्मृतम् । वृक्षकोटरे सुवर्णनाणकानि भवेयुः एव” इति वदन् बहूनि सुवर्णनाणकानि प्राप्तानि । तानि द्विधा विभज्य स्वीकृतवन्तौ देवराजः रामः च ।
वृक्षकोटरे हस्तं प्रसारितवान् । तेन तत्र ततः गृहं प्रत्यागतौ तौ स्वकुटीरम् अपनीय तस्मिन् एव स्थले उत्तमं गृहं निर्मितवन्तौ । ‘गृहयोः मध्ये अमृत- शिलामयी वितर्दिः निर्मातव्या’ इति तयोः स्वप्नः आसीत् खलु ? तदनुगुणं तौ अमृतशिलामयीं वितर्दिं निर्मितवन्तौ । तत्र च उपविश्य सन्तोषेण वार्तालापं कुर्वन्तौ, तृप्तिं च अनुभवन्तौ बहुकालं यावत् सुखेन जीवितवन्तौ ।











