महर्षिपाणिनिसंस्कृत विश्वविद्यालयस्य कार्यपरिषद:उपवेशनं सुसम्पन्नम्

वार्ताहरः डॉ.दिनेश: चौबे

उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य कार्यपरिषदः उपवेशनं मेमासस्य ०२ तमेदिनाङ्के पूर्वाह्ने ११:०० वादनतः अभवत् । सभायाः अध्यक्षता माननीयकुलपतिः आचार्यविजयकुमारसीजीमहोदयः अकरोत्। सभायाः आरम्भे सर्वैः कार्यपरिषद् सदस्यैः उच्चशिक्षामन्त्रि: डॉ. मोहनयादवस्य आभारम् अभिनन्दनं च कृत्वा शुभकामनाःप्रदत्ता: यत् तस्यैव अथकपरिश्रमस्य भागीरथप्रयासस्य च कारणेन विश्वविद्यालयस्य वार्षिकं अनुरक्षण अनुदानधनं २.२७ कोटिरुप्यकै: वर्धित्त्वा ५ कोटिरूप्यकाणि यावज्जातम् । एतेन सह माननीयमन्त्रिमहोदयस्य प्रयत्नात् निर्माणानुदानधनमपि प्राप्तुं सम्भावना वर्तते।
दीक्षांतसमारोहस्य अनुमोदनं कार्यपरिषदि अभवत्। दीक्षांतसमारोहः मेमासस्य अन्तिमसप्ताहे भविष्यति।
विश्वविद्यालये कार्यं कुर्वतां योग्यानां दैनिकवेतनभुक्कर्मचारिणां कृते स्थायीश्रमिकयोजनायाः लाभं प्रदातुं निर्णयः कृतः तथा च तेषां प्रकरणानां निवारणाय नियमितीकरणाय च सक्षमः प्राधिकारि: मन्त्रालयं, भोपालं गत्वा उच्चस्तरात् प्रकरणानां समाधानं करिष्यति।
विश्वविद्यालयशिक्षणविभागानां संस्कृतस्य पुराणेतिहासस्य च सहायकप्राध्यापकस्य अनुसूचितजनजातिवर्गे चयनप्रक्रियायाः परिणामान् अपि कार्यपरिषद् अनुमोदितवती अस्ति। कार्यपरिषदि राज्यपालमहोदयेन नामांकिता: सदस्या: श्रीराजेन्द्रझालानी, श्रीसुशीलवाडिया, डॉ. केसरसिंह चौहान, डॉ. किरणशर्मा, डॉ. विद्या जोशी, अपरनिदेशक: उच्चशिक्षा विभाग:, डॉ. अर्पणभारद्वाज: एवञ्च विश्वविद्यालयस्य प्राध्यापका: डॉ. उपेन्द्रभार्गवमहोदय: डॉ. संकल्पमिश्रमहोदय: उपस्थिता: आसन् ।
सभायां कुलसचिव: डॉ. दिलीपसोनीमहोदय: , वित्तनियंत्रक: श्रीदिनेशचौरसियामहोदय: विशेषामन्त्रितसदस्यरूपेण उपस्थित: आसीत्।