कर्णाटक विधानसभानिर्वाचनमभिलक्ष्य प्रधानमन्त्री श्री नरेन्द्र मोदी अद्य बेङ्गलूरुनगरे षडविंशतिः किलोमीटर दीर्घ राजमार्ग-प्रदर्शन-कार्यक्रमे भागं गृहीतवान्। अवसरेऽस्मिन् जनानां बृहद्ध समूहः दृष्टः । पथ-प्रदर्शन काले प्रधानमन्त्रिणा सह बेड्गलूरु तः सांसद : पी.सी. मोहन:, अथ तेजस्वी सूर्य: उपस्थितौ आस्ताम्।
पथ प्रदर्शनम् जे. पी. नगरस्य सोमेश्वरसभाभवनात् अपि प्रातः दश वादने आरभ्य अपराह्णे मलेश्वरम इत्यस्य गोकक – आन्दोलन उद्यानं प्राप्तवत्।
प्रधानमन्त्री नरेन्द्रमोदी साम्प्रतं बदामी नगरे एकां जनसभां समबेधयति। सहैव हवेरी नगरे अपि जनसभां स्मबोधयिब्यति।
अपरपक्षे काङ्ग्रेसदलस्य वरिष्ठ नेत्री सोनिया गांधी अदद्य प्रथमवारं कर्णाटक विधानसभा निर्वाचनार्थं हुब्बल्ली नगरे प्रचाराभियानं विधास्यति अवसरेऽस्मिन् काङ्ग्रेसद्लस्य नेता राहुलगान्धी अथ काङ्ग्रेसदलस्य राष्ट्रियाध्याक्षः मल्लिकार्जुन खडगे च उपस्थितौ भविष्यतः। अद्य बेलागवीनगरे राहुलगान्धी जनसभा द्वयं सम्बोधयिष्यति।











