उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिक-विश्वविद्यालयस्य संस्कृतशिक्षणप्रशिक्षणज्ञान विज्ञानसंवर्धनकेंद्रस्य तत्त्वावधाने आभाषीयपटलमाध्यमेन (आनलाईन्)आयोज्यमानस्य देवीपूजनपाठविधानप्रशिक्षणस्य समारोप: वैक्रमाब्द: २०८०वैशाखशुक्लनवम्यां शनिवासरे तदनु २९/४/२०२३ तमेदिनाङ्के, शनिवासरे सञ्जात:। प्रशिक्षणमिदम् एकदिनाङ्कादारभ्य ऊनत्रिंशत् दिनाङ्कपर्यन्तं प्राचलत्। अत्रप्रशिक्षणे देवीपूजनपाठविधानमंत्रस्त्रोत्रादि -विषये सरलतया प्रशिक्षणं प्रदत्तम् । देशस्य विदेशस्य च् नैका: धर्मजिज्ञासव: सोत्साहेन अस्मिन्प्रशिक्षणे भागं गृहीतवन्तः । विश्वविद्यालयस्य माननीयकुलपति: आचार्यविजयकुमारसीजीवर्यस्य कुशलनिर्देशने विश्वविद्यालयस्य केन्द्रेण अस्य प्रशिक्षणस्यामायोजनम् अकारि ।
सम्पूर्तिकार्यक्रमे मुख्यवक्तृरुपेण वेदव्याकरणविभागाध्यक्ष:, प्रभारिनिदेशकः संस्कृतसंवर्धन केन्द्रम् डॉ. अखिलेशकुमारद्विवेदिमहोदय: उपस्थितः आसीत् । महोदयेन स्ववक्तव्ये श्रीमद्देवीभागवते देवीपूजनस्य नैकान् प्रयोगिकानपक्षान् वैज्ञानिकं महत्त्वञ्च प्रतिपादितं सारगर्भितं व्याख्यानश्च अकरोत्।
कार्यक्रमस्य शुभारम्भः वैदिकमङ्गलाचरणेन जातः। तदनु अतिथीनां जिज्ञासूनाञ्च स्वागतं कार्यक्रमस्य प्रतिवेदनं च प्रस्तुतम् । अस्मिन्प्रशिक्षणकार्यक्रमे वेदविभागस्याध्यापकेन श्रीप्रणवकश्यपमहोदयेन प्रशिक्षकरुपेण प्रशिक्षणं दत्तम् ।
डॉ.अखिलेशकुमारपाण्डेय:, श्रीअनुरुद्धकुमारत्रिपाठी,श्रीशिवानन्दमिश्र:, डॉ.अखिलेशकुमारद्विवेदि महोदयानाम् अस्मिन्प्रशिक्षणे विशिष्टव्याख्यानानि जानि।
समारोहस्य सञ्चालनम् कार्यक्रमसंयोजकेन डॉ.दिनेश चौबेमहोदयेन ,आभारप्रदर्शनं डॉ अङ्कितशाण्डिल्यवर्येण च कृतम् । कार्यक्रमे अनेके जिज्ञासव: समुपस्थिताः आसन्।कल्याणमन्त्रेण सह कार्यक्रमस्य समापनं जातम्।











