कल्पनासुन्दरी (वेताल कथा ….विगत अङ्कस्य अवशिष्टं)

….विगत अङ्कस्य अवशिष्टं
तदा गन्धर्वराजः सन्तोषेण – “भवान् सम्यक् मनोरमायाः अभिज्ञानं प्राप्तवान् । मनोरमायाः अपि भवान् प्रियः एव । अतः भवतोः विवाहः अनुमन्यते मया । परन्तु एकः नियमः यत् सर्वदा एतस्याः विषये भवान् शान्तः एव भवेत् । यदाकदाचित् अपि एतस्य नियमस्य भङ्गः न भवेत् । कदाचित् भवान् कोपं कृत्वा एतां त्रिवारं ताडयिष्यति चेत् एषा भवन्तं त्यक्त्वा गन्धर्वलोकम् आगमिष्यति । यावत् भवान् नियमं पालयिष्यति तावत् मनोरमा भवतः समीपे स्थास्यति’ इति उक्त्वा मनोरमां तत्रैव त्यक्त्वा द्वाभ्यां पुत्रीभ्यां सह ततः अदृश्यः अभवत् ।
लज्जया शिरः अवनमय्य स्थितवतीं मनोरमां तत्रैव गान्धर्वविधिना परिणीय स्वनगरम् आनीतवान् देवशर्मा । केषाञ्चित् दिनानाम् अनन्तरं देवशर्मा स्वपल्या सह आत्मीयस्य मित्रस्य गृहं गतवान् । मित्रस्य पुत्रस्य नामकरणदिनम् आसीत् तत् । सर्वे बान्धवाः तत्र आगताः आसन् । देवशर्मा आत्मना आनीतम् उपायनं शिशवे दत्तवान् । ततः सः शिशुम् उन्नीय पल्यै दातुम् उद्युक्तःः । तदा मनोरमा शिशुम् उपेक्षया पश्यन्ती वेगेन ततः निर्गतवती ।
तत्रत्याः सर्वे जनाः देवशर्मा च तस्याः एतं व्यवहारं दृष्ट्रा नितराम् आश्चर्यचकिताः ।
गृहं प्रति आगमनानन्तरं देवशर्मा कोपेन पत्नीं पृष्टवान् – “मम मित्रस्य गृहे भवती शिशुं दृष्ट्रा किमर्थं तथा कृतवती ?” इति । “तं शिशुम् उन्नेतुम् अहं न इष्टवती” इति उक्तवती मनोरमा । तदा देवशर्मा पृष्टवान् – “तदेव अहं पृच्छन् अस्मि – किमर्थं तथा कृतवती इति ?” इति ।
“कारणं तु न वदामि इति उक्तवती मनोरमा । अनुक्षणमेव देवशर्मा तां कपोले ताडितवान् । तदा मनोरमायाः नेत्राभ्याम् अश्रूणि पतितानि ।
रुदती एव सा पतिं देवशर्माणम् उक्तवती – “तं शिशुं दृष्ट्रा अहं ज्ञातवती यत् सः शिशुः यदा ज्येष्ठः भविष्यति तदा बहुजनानां हननं करिष्यति इति । तादृशम् अहं स्प्रष्टुं न इष्टवती । अतः भवान् कोपेन मां ताडितवान् । एतत् प्रथमं ताडनम्” इति ।
देवशर्मा स्वदोषं ज्ञातवान् । इतःपरं जागरूकतया व्यवहरणीयम् इति सः निश्चितवान् । तदनुगुणम् एव व्यवहारम् आरब्धवान् च ।
एतस्याः घटनायाः मासात् अनन्तरं नगरपालकस्य पुत्र्याः विवाहनिमित्तं देवशर्मा मनोरमा च गतवन्तौ । नगरपालकः तौ द्वौ अपि आदराभिमानेन आहूय कल्याणमण्डपसमीपं नीतवान् । यदा वरः वध्वाः कण्ठे माङ्गल्यसूत्रं बन्धुम् उद्युक्तः तदा मनोरमा उच्चध्वनिना रोदनम् आरब्धवती । तत्र सम्मिलिताः सर्वे जनाः तां कुतूहलेन दृष्टवन्तः ।
तदा देवशर्मा लज्जाम् अनुभवन् मृदुस्वरेण पत्नीं पृष्टवान् – “किमर्थं रोदनं करोति भवती ?” इति ।
“किं वदामि ? तौ वधूवरौ वैरिणौ । विवाहानन्तरं तौ मिलित्वा न जीविष्यतः । सर्वदा कलहं करिष्यतः । एतयोः जीवनं यातनामयं भविष्यति'” इति उक्त्वा मनोरमा रोदनम् अवरोद्धुं प्रयत्नं कृतवती ।
तस्याः वचनं श्रुतवान् कश्चित् पार्श्वे विद्यमानम् अपरम् उक्तवान् “पश्यतु, पल्याः नियन्त्रणं कर्तुं पतिः असमर्थः अस्ति” इति । तत् वचनं श्रुत्वा देवशर्मा कोपेन मनोरमायाः भुजं कम्पयन् “भवत्याः रोदनं स्थगयतु’ इति उक्तवान् । तदा मनोरमा व्यथाम् अनुभवन्ती “पश्यतु, भवान् द्वितीयवारं मां तर्जयन् अस्ति । एतत् भवान् स्मरतु” इति उक्त्वा वेगेन ततः निर्गतवती ।
एतदनन्तरं देवशर्मा अधिक- जागरूकतया पत्नीं पश्यन् आसीत् । कस्याञ्चित् अपि परिस्थितौ सः पत्नीं विहाय न भवति स्म ।
केषाञ्चित् दिनानाम् अनन्तरं देवशर्मणः पितृव्यस्य पुत्रः मृतः । तदा देवशर्मा मनोरमा च तत्र गतवन्तौ । यः मृतः तस्य पत्नी उच्चध्वनिना रोदनं कुर्वती आसीत् । तत् दृष्ट्रा अन्ये मनसि एव दुःखम् अनुभवन्ति स्म ।
तस्यां दुःखपरिस्थित्यां मनोरमा उच्चैः हसितवती । सर्वे तां विचित्रदृष्ट्या दृष्टवन्तः । तदा देवशर्मा मन्दस्वरेण तां सूचितवान् – “एवं मा हसतु । सर्वे रोदनं कुर्वन्तः सन्ति ‘ इति ।
तथापि सा हासस्य निग्रहणं कर्तुं न शक्तवती । एतत् दृष्ट्रा नितरां खिन्नः – देवशर्मा कोपेन तां ताडितवान् ।
अनुक्षणमेव मनोरमा रोदनं स्थगयित्वा –
“यः मृतः सः अदृष्टवान् । यतः एतावति काले एव सः चक्रवर्तिनः पुत्रः सन् पुनर्जन्म
प्राप्तवान् अस्ति । तत् अज्ञात्वा एते सर्वे रोदनं कुर्वन्तः सन्ति । अतः मम हासः आगतः । तत् भवतु नाम । भवान् तु इदानीं मम पितुः वचनस्य भङ्गं कृतवान् । अतः भवता सह न जीवामि इति देवशर्माणम् उक्त्वा ततः प्रस्थितवती । ताम् अवरोद्धुं देवशर्मा प्रयत्नमेव न कृतवान् । तथा एव निर्लिप्तः सन् स्थितवान् आसीत् ।
वेतालः एवं कथां समाप्य “हे राजन् ! अत्र यत् प्रवृत्तं तस्मिन् मम बहवः संशयाः सन्ति । देवशर्मा किमर्थं गन्धर्वराजस्य वचनम् उल्लङ्गितवान् ? ‘येन केनचित् वा कारणेन यदि त्रिवारं भवता ताडयेत तर्हि एषा भवन्तं त्यक्त्वा गमिष्यति’ इति गन्धर्वराजेन उक्तम् आसीत् । एतत्
वचनं सम्यक् स्मरति स्म देवशर्मा । तथापि सः तां त्रिषु सन्दर्भेषु ताडितवान् । किम् एतत् बुद्धधा कृतम्, उत कोपवशात् ? किमर्थं सः मनोरमायै गमनार्थम् अवकाशं दत्तवान् ? तस्यां विद्यमाना प्रीतिः न्यूना जाता किम् ? मनोरमा अपि देवशर्मणि अनुरागवती आसीत् । तथापि सा किमर्थं देवशर्मणः त्यागे मतिं कृतवती ? किम् अविवेकिनी सा ? यदि एतेषां सन्देहानाम् उत्तरं भवान् जानन् अपि न वदेत् तर्हि भवतः शिरः सहस्त्रधा भग्नं भविष्यति” इति अवदत् ।
तदा त्रिविक्रमः उक्तवान् “मानव- गन्धर्वयोः मध्ये यः विवाहः प्रचलति सः धर्मविरुद्धः अस्ति । देवशर्मणः मनोरमायां विद्यमाना प्रीतिः न्यूना न जाता । परन्तु सः मानवस्वभावं परिवर्तयितुं न शक्तवान् तथा च मनोरमायाः मनस्तत्त्वमपि न परिवर्तितम् । तयोः द्वयोः स्वभावे विद्यमानः भेदः तयोः व्यवहारेण ज्ञातः । देवधर्म मानवः आचरितुं न
शक्नोति । सः सङ्घजीवी । केवलं स्त्रीषु विद्यमानया प्रीत्या मानवजीवनस्य परिपूर्णता न भवति । देवशर्मा यदा पत्नीं त्रिवारं ताडितवान् तदा- ‘समकालीनाः सहजीविनः किं किं चिन्तयन्ति’ इति चिन्तितवान्, न तु मनोरमायाः पितुः नियमं स्मृतवान् । तथा च मनोरमा स्वस्मिन् विद्यमानया असाधारण्या शक्त्या अन्येषां भविष्यं ज्ञात्वा स्वेच्छया व्यवहृतवती । मानवानाम् आचारविचारविषये न सा चिन्तितवती एव । एतादृशं सूक्ष्मविचारं देवशर्मा ज्ञात्वा तस्यां विद्यमानां प्रीतिं न्यूनीकृतवान् । अपि च सा कदाचित् स्वस्मात् दूरं गमिष्यति इति कठोरसत्यं सः अनुभवबलात् ज्ञातवान् आसीत् एव । अतः एव सः मनोरमायाः गमनं न अवरुद्धवान्’ इति ।
एवं दतः राज्ञः मौनभङ्गः यदा जातः तदा शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्व वृक्षस्य शाखाम् अवलम्बितवान् ।