प्रधानमंत्री नरेन्द्र मोदी अन्ताराष्ट्रिय संग्रहालयस्य उद्घाटनं अकरोत्

प्रधानमंत्री नरेन्द्र मोदी नव-दिल्ल्यां प्रगतिमैदान-क्षेत्रे अन्ताराष्ट्रिय संग्रहालय-एक्सपो त्रयोविंशत्यधिक द्विसहस्रम् इत्यस्य उद्घाटनं अकरोत्। आजादी का अमृत महोत्सव इत्यस्य भागरूपेण सप्तचत्वारिंशत्-तमस्य अन्ताराष्ट्रिय-संग्रहालय-दिवसस्य परिपालनाय अस्य आयोजनं क्रियते । अस्य वर्षस्य विषयः अस्ति ‘संग्रहालयाः, स्थायित्वं कल्याणञ्चेति। ‘अस्मिन् कार्यक्रमावसरे श्रीमोदी उत्तरदक्षिणखण्डयोः आगामिनः राष्ट्रिय संग्रहालयस्य आभासीय माध्यमेन उद्घाटनम् अपि कृतवान् । अस्मिन् अवसरे वदन् प्रधानमन्त्री जनान् सप्तचत्वारिंशत्तमाय अन्तर्राष्ट्रिय-सङ्ग्रहालयदिवसाय अभिनन्दनं कृतवान्। सः अवदत् यत्, देशस्य समृद्धानां सांस्कृतिकसम्पदां संरक्षणाय, सांस्कृतिकमूलसंरचनानां निर्माणाय च सर्वकारः निरन्तरं कार्यं कुर्वन् अस्ति। श्रीमोदी अवदत् यत्, स्थानीयग्रामीणसङ्ग्रहालयनिर्माणे अपि ध्यानं दत्तम् अस्ति। श्रीमोदी दिल्लीनगरे देशस्य सर्वेभ्यः पूर्वप्रधानमन्त्रिभ्यः समर्पितं प्रधानमन्त्रिसंग्रहालयं अपि दर्शनाय अतिथिभ्यः अनुरोधं कृतवान् । स्वसम्बोधने पीएम मोदी उक्तवान् यत् यदा वयं संग्रहालयं गच्छामः तदा अतीतानां परिचयः भवति। संग्रहालये यत् पश्यन्ति तत् तथ्याधारितम् अस्ति । संग्रहालये एकतः अतीतात् प्रेरणा प्राप्यते अपरतः भविष्यं प्रति स्वकर्तव्यं साक्षात्करोति ।