हैदराबादे जी विंशतिः स्वास्थ्य कार्य समूहस्य तृतीयोपवेशनम् प्रारब्धः

हैदराबादे जी विंशति: स्वास्थ्य कार्य समूहस्य तृतीयोपवेशनम् प्रारब्धः । अस्मिन् उपवेशने भारतस्य अध्यक्षमभिलक्ष्य स्वास्थ्य एवं परिवार कल्याण राज्य मंत्री भारती प्रवीण पंवारः प्रोक्तवती यत् सार्वभौमिक स्वास्थ्य सेवानां लक्ष्यं प्राप्तुं निवर्तमान वैश्विक स्वास्थ्य प्रणालीनां, क्षेत्रीय स्वास्थ्य पद्धतीनां चोभयोः मध्ये परस्परं मेलनस्य आवश्यकता वर्तते। अस्मिन्नेव पूर्वे केन्द्रीय पर्यटन मन्त्री जी. किशन रेड्डी प्रोक्तवान् यत् प्रशासनम् त्रिंशताधिकद्विसहस्रतमवर्षं यावत् सर्वेषां कृते स्वास्थ्य-चिकित्सयोः सेवा: प्रदातुं प्रतिबद्धोऽस्ति । असौ अवदीत् यत् प्राक्तन-चिकित्सा पद्धतयः प्रौद्योगिकीनां विकासः च महामार्य्याः कुप्रभावान् दूरीकर्तुं सहायता विहिताः । अवसरेऽस्मिन् स्वास्थ्य परिवार एवं कल्याण मन्त्री एस. पी. बघेल: अस्मिन्नोपवेशने निजविचारान् प्रकटितवान्।
त्रिदिवसात्मके अस्मिन्नोपवेशने स्वास्थ्यायापद्-स्थितीनां उपायाः, सज्जा प्रतिक्रियाः, अल्पमूल्येषु चिकित्सा सुविधा:, डिजिटल-स्वास्थ्य सेवाश्च प्राथम्येन सम्मिलिताः सन्ति।