वार्तासंयोजकः डॉ. दिनेश चौबे
उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालय:, क्षिप्रालोकसंस्कृतिसमिति:, एवञ्च विक्रमविश्वविद्यालय: उज्जयिनी, इत्येताषां संस्थानां संयुक्ततत्तावधाने द्विदिवसीयविद्वतव्याख्यान मालाया: आयोजनं मेमासस्य पञ्चविंशतितमे दिनाङ्के शुक्रवासरे प्रातः एकादशवादने विक्रमकीर्तिमन्दिर-देवासमार्गपरिसरस्य सभागारे अभूत्। समारोहेऽस्मिन् मुख्यातिथिरूपेण मध्यप्रदेशस्य उच्चशिक्षामन्त्री डॉ.मोहनयादवमहोदय:,उपस्थित: आसीत् ।पाणिनिविश्वविद्यालयस्य माननीयकुलपति: आचार्यविजय कुमारसीजीमेनन्महोदयस्य आध्यक्षत्वे कार्यक्रमोऽयम् अभूत्। समारोहेsस्मिन् विक्रमविश्वविद्यालयस्य कुलपतिः आचार्यः अखिलेशकुमारपाण्डेयवर्य:कुलसचिव: डॉ.प्रशांतपौराणिक: उपस्थितौ आस्ताम्। समारोहस्य शुभारम्भःवैदिकमङ्गलाचरणेन दीपदीपनेन सरस्वतीवन्दनया, च सञ्जातः । मुख्यातिथिरूपेण विराजमानेन मन्त्रीमहोदयेन क्षिप्राया: पौराणिकं महत्त्वं लोके तस्याः मान्यता एवञ्च सप्तसागरा:- उपसागरा: चतुरशीतिः महादेवा: तंत्रसाधनाया पुराकेन्द्रम् उज्जैनम् आसीत् इत्यादया: बहवः अंशाः प्रतिपादिताः – कार्यक्रमे अध्यक्षरूपेण उपस्थित: विश्वविद्यालयस्य मान्यकुलपति: आचार्य विजयकुमारमेनन्महोदयेन्नोक्तं यत् क्षिप्रानद्या वर्णनं सर्वत्र प्राप्यते पुराणेषु च विशेषतः उल्लिखितम् वर्तते। नदीनां संरक्षणं अस्माकं सामूहिकम् उत्तरदायित्वम् अस्ति। विक्रमविश्वविद्यालयस्य कुलपति: डॉ. अखिलेशकुमारपाण्डेयमहोदय:, कुलसचिवः डॉ. प्रशान्तपौराणिकः, च सभां सम्वोधित्वन्तौ मुख्यवक्तारूपेण डॉ.शुभम् शर्ममहोदयः पुराकालादारभ्य क्षिप्राया: महिमा विषये विस्तारेण उक्तवान् । कार्यक्रमस्य सूत्रधारः डॉ रमण सोलङ्कीवर्य: आसीत । कार्यक्रमे नगरस्य गणमान्याः च समुपस्थिताः आसन् । कार्यक्रमस्य सञ्चालनं पाणिनिविश्वविद्यालयस्य योगविभागप्रमुखेण डॉ. उपेन्द्रभार्गवमहोदयेन कृतम् । समारोहे पाणिनिविश्वविद्यालयस्य- विक्रमविश्वविद्यालयस्य च् अध्यापकाःअधिकारिणः कर्मचारिण: पत्रकारवान्धवाश्च समुपस्थिताः आसन् आभारप्रदर्शनं पाणिनिविश्वविद्यालयस्य कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन कृतम् । कल्याणमन्त्रेण सह सभा समाप्ता जाता।











